________________ अलंकारसर्वस्वम् / 211 धारणगुणयोगाद्भेदानुपलक्षणं रूपम् / अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः / सहजेन यथा 'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् / इति स्फुरितमङ्गकैर्मुगदृशां खतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते // अत्र दृक्तारल्यादिना खाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तारल्यादि तिरोधीयते / आगन्तुकेन यथा गुणयोगादिति / यदाहुः-'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं बैध्यते योगात्तत्सामान्यमिति स्मृतम् // ' इति / भेदानुपलक्षणमिति / प्रस्तुताप्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्धटपटवद्भदो न प्रातिश्विकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः / यथा-राजगजादौ शुक्तिकारजतयोः संनिकर्षेण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणादुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् / मीलिते पुनन्यूनगुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात् / अत एवात्र मदोदयकृतस्य हैक्तारल्यादेर्नावगममात्रं, तस्य मदोदयात्पूर्वमपि तथैवावस्थानात् / बलवता खाभाविकेन दृक्तारल्यादिनाच्छादितत्वात् / सामान्ये पुनः-'अभेदमूढस्तबकाभिरागता लताभिरीषल्ललितालिपतिभिः / इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी // ' इत्यादौ निकुञ्जमध्यगताया योषितः पृथग्देशावष्टम्भेन सामान्याकारतयावगमेऽपि साधारणगुणयोगालताभ्यो भेदेनानध्यवसायः / अत एव 'न लक्ष्यते व्यक्तम्' इत्याद्युक्तम् / अतश्च खरूपेणावगतस्यापि भेदानध्यवसायः / सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलितमिति स्थितम् / अत एवाह-महाननयोर्विशेष इति / एवं तर्हि समानगुणत्वस्या 1. 'भेदः' क. 2. 'बाध्यते' क. 3. 'दृक्तारतम्यादेः' क.