________________ 210 काव्यमाला। अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्वकल्पितं प्रतीपमेव / यथा'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः / ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् // ' अत्र हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निवद्धम् / वस्तुना वस्त्वन्तरनिगृहनं मीलितम् / सहजेनागन्तुकेन वा लक्ष्मणां यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् / न चायं सामान्यालंकारः, तस्य हि सा एव स्पर्धाबन्धभाजः परस्योत्पादाच्यकारः / अनेन न्यायेनेति / अत्र यथोपमानत्वप्रादुर्भावो न्यकारकारणं तथैवेत्यर्थः / अतश्च पूर्वस्या एव विच्छित्तेरिदं विभजनं न पुनर्विच्छित्त्यन्तरमिति भावः / प्रतीपमिति / उपमानभावं यो न सहते, तस्योपमानत्वपरिकल्पनेन प्रतिकूलवर्तित्वात् / यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यून गुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः / 'वैकुण्ठाय श्रियमभिनवां शीतभानुं भवाय प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्व गण्यम् / तृष्णार्ताय स्वमपि मुनये यद्ददातिस्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधर्बोधिसत्त्वः // ' इत्यत्र पुनरन्यमतेऽपि न प्रतीपम् / लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभावात् / अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम् / अत एवाम्बुधेः खदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः / एतच्च वस्त्विति नालंकार इत्यलमतिविस्तरेण / वस्तुनेति / लक्ष्मणेति / चिह्नरूपेण धर्मेणेत्यर्थः / तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्यनेनोक्तम् / ननु वस्त्वन्तरस्य वस्त्वन्तरेण निगूहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याशक्याह-न चायमित्यादि / साधारण 1. 'तस्यैवोपमानभावकल्पने' ख. 2. 'तस्योपमेयत्वपरिकल्पनेन' इति भाति. 3. 'अभिनवं' ख.