________________ अलंकारसर्वस्वम् / 209 अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् / वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका / कचिस्पुननिष्पन्नमेवौपम्यमनादरकारणम् / येथा'गर्वमसवाद्यमिमं लोचनयुगलेन किं वहसि भद्रे / सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि / ' अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् / ननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् // ' इत्यत्रापि ज्ञेयम् / यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम् , तत्तेषां तत्वरूपानभिज्ञत्वम् / लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः / यथा मा-'तस्याश्चेन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः / किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः // ' इत्यत्र सौम्यसुभगत्वादि सकृनिर्दिष्टम् / असकृन्निर्देशस्तु यथा-'यद्यस्ति तस्याः स्मरशाङ्गभङ्गिविलासवेलद्र मुखं नताझ्याः / तदिन्दुना किं विहितं विधात्रा सृष्टेन वल्गन्मृगशावकेन // ' अत्र वेल्लद्वल्गत्वयोः शुद्धसामान्यरूपत्वं भ्रमृगयोस्तु बिम्बप्रतिबिम्बभावः / निकर्षार्थमिति / अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् / प्रयोजि. केति / उत्कर्षप्रतिपादनात् / अत्रापि साधारणधर्मस्यानुगामितया यथा-'मुखेन सखि पीयूषपेलवेन निशासु ते / उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् // ' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् / असकृनिर्देशस्तु यथा-'पौलस्त्य विस्तृतविवेलदपूर्वबभ्रकूर्चच्छटाप्रकटितं सृजताद्य च त्वाम् / नीतोऽञ्जनाद्रिरुपमेयधुरां विधात्रा प्रोत्तुङ्गशृङ्गविवलत्पृथुदाववह्निः // ' अत्र वेलद्विवलत्वयोः शुद्धसामाम्यरूपत्वम् , कूर्चदावयोस्तु बिम्बप्रतिबिम्बभावः / अस्य हि विच्छित्त्यन्तरं दर्शयति-कचिदित्यादिना / निष्पन्न मिति / सिद्धत्वेनोक्तेः / उत्कर्षभाज इति / अर्थान्नेत्रयुगलस्य / प्रादुर्भाव इति / उपमानस्याभूतस्योत्पत्तिः / अत 1. 'निष्पन्नमौपम्यम्' ख. 2. 'यथा' ख-पुस्तके नास्ति. 14 अ० स०