________________ काव्यमाला। 'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि / यथा वा'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा / * इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः // ' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् / 'ए एहि दाव सुंदरि कणं दाऊण सुणसु वअणिजं / तुज्झ मुहेण किसोअरि चंदो उअमिज्जइ जणेण // ' ज्ञामात्रमित्युक्तम् / एक द्वितीयमित्यभिदधता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम् / उपमाप्रकारत्वं चानयोर्न वाच्यम् / उपमानस्याक्षेपादुपमेयकल्पनाच / न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः / अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैविध्यम् / एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम् / तेन ‘णिद्दश्चअ वंदिजिअ किं किरऊ देवआहिं अण्णाहिं / जिइ पसाएण पिओ लघइ दूरेवि णिवसंतो // ' इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम् / अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणीकर्तृकं वास्तवमेव वन्द्यत्वम् / वस्तु च नालंकार इति निर्विवादः / कुवलयदलदानामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः / अन्यथा हि तदाक्षेपो निरर्थकः स्यात् / एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्विलासाः / किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् // ' इत्यत्रापि ज्ञेयम् / अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा क्रियते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः / तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम् / एवं 'खेलन्तीनां सुरपतिपुरीवारवाराङ्गनानां यन्मजीरध्वनितसुभगो रौति कोलाहलोऽयम् / तेनैवास्ते मद 1. 'अये एहि तावत्सुन्दरि कर्ण दत्वा शृणुष्व वचनीयम् / तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन // ' इति च्छाया.