________________ अलंकारसर्वस्वम् / 207 यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते, तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः / प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् / यथा'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः / कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते // अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः / तदीयः पुनर्वसाहश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः / उपमानस्साक्षेप उपमेयताकल्पनं या प्रतीपम् / उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते, तदेकं प्रतीपम् / उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः / यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरणार्थमुपभेयत्वं कल्प्यते, तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् / क्रमेण यथा त्यादि / किं चात्र प्रयोजनमिलाशयाह-प्रतिपक्षेत्यादि / बलवत्त्वाख्यापनमिति / अप्रतीकार्यत्वात् / अत्रेत्यादि / वक्रसादृश्यमुखेन तदीय इति संवन्धः / तत्तिरस्कारादिति / न पुनस्तत्स्वीकारात् / बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात् / अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम् / प्रकर्षोऽप्रतीकार्यत्वम् / एतेन चास्य प्रयोजनं दर्शितम्। अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुनिन्दाद्वारेण बलवतः प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुतिप्रतिपादने तात्पर्यम् / उपमानस्येत्यादि / कैमर्थक्येनेत्यादि / तद्वयापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः / उपमानान्तरेति / उपमानानां मध्ये / अनादरणार्थमिति / उपमानत्वेन नैतद्योग्यमिति यावत् / पूर्वोक्तगत्येति / उपमेयस्योपमानप्रतिकूलवर्तित्वात् / अनेनोभयत्रापि नैतत्सं 1. 'तिरस्कारकर्तुः' ख.