SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 206 काव्यमाला। तत्सौकर्यार्थ घनगर्जितस्य कारणान्तरस्य प्रक्षेपः / सौकर्य चोपकारायेति पदे प्रकाशितम् / एवं वाक्यन्यायायिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायायिणोऽलंकारा उच्यन्ते / तत्र प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम् / यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकारः कर्तुं न शक्यत इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्यनीकम् / अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते / ततुल्यत्वादिदमपि प्रत्यनीकमुच्यते / तत्सौकर्यार्थमिति / सुखेन कार्यनिष्पत्त्यर्थमित्यर्थः / यद्याकस्मिकघनगर्जितयोगो न स्यात्तदा निरासमानराकरणं न सिद्ध्येत् / एतच्च,प्रथमप्रकारस्योदाहरणम् / द्वितीयस्य यथा-'स्त्रैणं लीलाभरणमभितस्त्रोटयित्वा श्रमाम्भः शक्त्या पत्रावलिमृगमदव्यञ्जितश्मश्रुदेहः / केलिक्षोभः कुवलयदृशां मान्मथे कार्यभावे पुंवद्भावं घटितमभितः पारिपूयं निनाय // ' अत्र खेदादिना घटितस्यापि पुंवद्भावस्य केलिक्षोभाख्येन कारणान्तरेण स्त्रैणाभरणत्रोटनादिना स्वरूपोपचयाधानात्समाधिः / एवमेवैमादावव्यापकमेतलक्षणमिति यदन्यैरुक्तं, तत्तेषामेतल्लक्षणखरूपानवधारणमेवेत्यलं बहुना / एतदुपसंहरन्नन्यदवतारयति–एवमित्यादिना / तत्रेति निर्धारणे। प्रतिपक्षेत्यादि / एतदेव व्याचष्टे-यत्रेत्यादिना / बलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः / तत्संबन्धिन इति / बलवत्प्रतिपक्षमत्कस्य / तत्संबन्धित्वं च सादृझ्यादिसंबन्धमूलम् / दुर्वलस्येति / तस्यापि हि बलवत्वे दुर्बलेन प्रतिपक्षेन प्रतीकारः कर्तुं न शक्यत इति भावः / तमिति / सबलं प्रतिपक्षम् / बाधितुमिति / अन्यथा हि नि. प्रयोजनस्तदीयतिरस्कारः स्यात् / क्रियत इति / दुर्बलेन प्रतिपक्षेण / नैतत्संज्ञामात्रमित्याशङ्कयाह-अनीकस्येत्यादि / तुल्यत्वमेव * दर्शयति-यथे१. 'बाधयितुं' ख. 2. 'मेघधनगर्जित' क. 3. 'एवमादौ'ख. 4. 'कर्तुं शक्यः' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy