________________ अलंकारसर्वस्वम् / 205 मपि विशेष्यस्य शोभनत्वं प्रक्रान्तम् , विशेषणस्य त्वशोभनत्वम् , इह त्वन्यथेति न सर्वथा निरवद्यम् / ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः / नैतत् / इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा / तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोभेंदः / अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति / सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् / अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण / तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् / कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः / केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्यं यत् , स सम्यगाधानात्समाधिः / समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः / तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव / उदाहरणम् 'मानमस्या निराकर्तुं पादयो, पतिष्यतः / उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् // ' माननिराकरणे कार्ये पादपतनं हेतुः / थेति / अनेनापि मार्गेण क्रमभेदोपपत्तेः / असद्योगसदसद्योगौ भेदयति-नन्वित्यादिना / इहेति / प्रकृते सदसद्योगोदाहरणे / तत्रेति / असद्योगोदाहरणे / अत एवेति / शोभनस्य सतोऽशोभनत्वेन विवक्षणात् / सोढव्य इत्यु. पसंहृतमित्यत्रापि संबन्धनीयम् / एतदेवोपसंहरति-तस्मादित्यादिना / प्रकारत्रयस्येति / प्रकारद्वयस्य तावद्भेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीयस्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम् / कारणेत्यादि / एतदेव व्याचष्टे-केनचिदित्यादिना / सौकर्यमिति / कार्यस्य सुखेनानायासमेव प्रकृतकारणवशेन निष्पन्नत्वेऽपि खरूपोपचयाधायकत्वेनाकृच्छ्रार्थस्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्टु वा करणमित्यर्थः / अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्ठु वा कारणस्य भेदद्वयमपि ज्ञेयम् / प्रागिति समुच्चये। हेतुरिति / प्रकृतः।