________________ 204 काव्यमाला। तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम् / सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खाकृतेः। प्रभुधनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे // अत्र शशिनः खतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः / नत्वत्र कश्चित्समुच्चीयमानः शोभनः / अन्यस्त्वशोभन इति सदसद्योगी व्याख्येयः / ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये तु शोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः / नैतत् / 'नृपाङ्गणगतः खलः' इति प्रत्युत प्रक्रमभङ्गाहुष्टमेव / न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् / अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्ट एवेत्युक्तम् / प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् / एव. दीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपीत्याशङ्कयाह-नवेत्यादि / तादृशैरेवेति / सदसद्भिः। कामिन्यादीनां स्वतः शोभनानामपि गलितयौवनादेरशोभनत्वात् / अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशङ्कयाह-नन्वि. त्यादि / तादृशेनेति / समुच्चीयमानेनेत्यर्थः / प्रक्रमभेदादिति / शोभनानामुपक्रमेऽप्यशोभनस्य निर्देशात् / अत एवेति / सौन्दर्यनिमित्तत्वाभावात् / अन्यैरिति / काव्यप्रकाशकारादिभिः / तत्तु यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता // ' अत्र श्रुतिधृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयोनिकृष्टयोर्भिन्नत्वम् / एवमपीति / सल्यामप्यस्यां समर्थनायाम् / न सम 1. 'इत्युत्प्रेक्ष्यमेवैतत्' क.