________________ अलंकारसर्वस्वम् / 203 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् / प्रकृतिसुभगा एते भावा अमीभिरयं जनो। व्रजति नितरां दर्प राजस्त एव तवाङ्कुशाः // ' अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः। एकैकं च दर्पहेतुतायोग्यं तस्पर्धया निबद्धम् / असतोऽशोभनस्यासता समुच्चीयमानेन योगे यथा 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं ___ गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् / स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः // ' अत्र दुर्वारत्वेनाशोमनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः / नववयःप्रभृतीनां च यद्यपि खतः शोभनत्वम् , अन्यनिरपेक्षमित्यर्थः / आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मुखेन स्वरूपोपचयाधायित्वेन सुटुकार्यनिष्पत्तिः प्रयोजनम् / समुच्चये पुनः स्पर्धयैव बहनामेककार्यकारित्वम् / अत एवात्र खलेकपोतिकयेति निदर्शनीयम। एवं च-'सोबाणारहणपरिस्समेण कीस्मृविजे विनिस्सरिआ / तेखि अहरिदः सनवइअरेणस्सा साणवाच्छिण्णाः // ' इत्यादौ समुच्चय एव / सोपानारोहणपरिश्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्वयवच्छेदनिषेधमुखेन श्वासकारित्वोपनिबन्धात् / अत एवात्र न समाधिः / तस्य हि काकतालीयेनापतता कारणान्तरेण कार्यसौकर्य लक्षणम् / न चात्रैतत्संभवति / न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम् / तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात् / नापि तद्योगात्कार्यस्योपोद्वलनात्मकं सौकर्य, हरिदर्शनस्यापि सोपानारोहणपरिश्रमस्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात् / अत एव ‘णवोवाच्छिण्णा' इत्यतम् / शोभनैरिति / भद्रत्वादिति योगात् / ननु दूरनिर्वासितत्वादिना प्रिया 1. पुस्तकद्वयेऽप्येषा गाथास्फुटैव. -