________________ 202 काव्यमाला। ___ अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायोगपद्यम् / प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात् / तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुणयोगपद्यमिति द्रष्टव्यम् / एवमयं त्रिधा समुच्चयः। एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयतिएकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च / समुच्चय इत्येव / यत्रैकः कस्य चित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्त. स्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः / न चायं समाध्यलंकारेऽन्तर्भवति / तत्र टेकस्य कार्य प्रति पूर्ण साधकत्वम् / अन्यस्तु कार्याय काकतालीयेनापतति, तत्र समाधिर्वक्ष्यते / यत्र तु खलेकपोतिकया बहूनामवतारस्तत्रायं समुच्चयः / अतः सुमहान्भेदोऽनयोः / स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते / सतः शोभनस्य सता शोभनेन समुच्चीयमानेन योगे यथा मनुः // ' अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम् / ननु च केकरायो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः किं शब्दा इत्याशङ्याह-प्रसादीत्यादि / तस्येति / संबन्धस्य / एतदुपसंहरतिएवमित्यादिना / विधेति / गुणानां क्रियाणां गुणक्रियाणां च योगपद्येनावस्थानात् / भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपञ्च एवेतिन पृथगिहोपात्तः / लक्षयतीति / एकस्येत्यादिना / एकः कस्यचिदिति / यत्र यादृशो विवक्षितस्य / स्पर्धयेति / प्रक्रान्तस्य हेतोः / तत्सिद्धिमिति / का. र्यनिष्पत्तिम्। अपर इति / पूर्वसमुच्चयात् / भिन्नलक्षणत्वात् / ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशङ्कयाह-न चेति / पूर्णमिति /