________________ 200 काव्यमाला। त्वम् / न चात्र समुच्चये वाशब्दः / संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् / ननु विरोधनिमित्तो विकल्पः / कथं चात्र विरोधः / नैतत् / तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव न कार्यम् / कृतं च तत्स्पर्धिभावं गमयति / स्पर्धिभावश्च विरुद्धत्वम् / नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात् / स चात्र श्लेषाच्छृिष्टः / लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः / तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवगन्तव्यम् / गुणक्रियायोगपद्यं समुच्चयः। गुणानां वैमल्यादीनां योगपद्येनावस्थानम् , तथैव / क्रियाणां च समुच्चयोऽलंकारः / विकल्पप्रतिपक्षणास्य स्थितिः / क्रमेण यथा ननु च नेत्रे च तनुश्चेत्यत्र समुच्चय एव किं न भवतीत्याशङ्कयाह-न चात्रेत्यादि / गताविति / वाशब्दस्य समुच्चयार्थलक्षणायाम् / तथेति / समुच्चयार्थपरतयेत्यर्थः / न ह्यत्र समुच्चयार्थो विवक्षितः / एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह-नन्वित्यादि / न कार्यमिति / तन्वभिधानेनैव नेत्रयोः खीकृतत्वात् / कृतमिति / पृथगभिधानम् / स्पर्धिभावमिति / अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात् / स्पर्धिभावादिति / तुल्यत्वात्। असुप्रत्येयत्वादिति / सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरासः कृतः / स इति / विकल्पः / एतदेवोपसंहरति-तस्मादित्यादिना / समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम् / अनेनास्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम् / गुणक्रियेत्यादि / तथैवेति / यौगपद्यावस्थानेनेत्यर्थः / अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम् / नैर्मल्यमालिन्ययोर्गु 2. 'विकल्पस्य' ख. 3. 'स चात्र लेषः श्लिष्टः' ख. 1. 'निमित्तको' ख. 4. 'इत्यवधातव्यम्' ख.