________________ अलंकारसर्वस्वम् / 199 इत्यादि / अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लिष्टत्वम् / संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे, प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् / द्वौ चेमौ विरुद्धाविति नास्ति तयोर्युगपत्प्रवृत्तिः / प्राप्नुवतश्चात्र युगपत्प्रकारान्तरस्यानाशङ्कयत्वात् / ततश्च न्यायप्राप्तो विकल्पः / ___ नमनकृतं च तयोः सादृश्यमित्यलंकारता / एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् / औपम्यगर्भत्वाच्चात्र चारुत्वम् कचिच्छेषावलम्बेनाप्ययं दृश्यते / यथा'भक्तिप्रविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी / ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये / लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः // ' अत्र नेत्रे तनुवैति विकल्पः / उत्तमत्वाच्च तुल्यप्रमाणं श्लिष्ट ल्पमात्रत्वम् / विकल्पवृत्तं चात्र दर्शयति-अत्रेत्यादिना / क्रमेणेति / शिरोनमने संधिर्धनुनमने विग्रहश्चेति / स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम् / द्वौ चेमाविति / संधिविग्रहौ / अनयोविरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयोविरुद्धत्वम् / तयोरिति / शिरोधनुर्नमनयोः / प्रकारान्तरस्येति / यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत् / ततश्चेति / विरुद्धयोर्युगपत्प्रवृत्त्यसंभवान्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम् / अत एव चैतदभाववादिनामन्यायवादित्वमपि सूचितम् / अत्रौपम्यकृतमेवालंकारत्वमित्याह-नमनेत्यादि / तेनात्र नमनालयस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः / वस्तुप्रतिवस्तुभावस्तु यथा--'नटं विधातुरुचितं मुखमेव चञ्चद्भूकं नतभ्रु तव कान्तिविलोकितेषु / एणाङ्कबिम्बमथ वा विवलत्कलङ्कमेकं न यद्विहित एव जगत्प्रकाशः // ' अत्र चञ्चद्विवलवत्योः शुद्धसामान्यरूपत्वं भ्रूकलङ्कयोर्बिम्बप्रतिबिम्बभावः। उत्तमत्वा. दिति / द्वयोरपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात् /