________________ 198 काव्यमाला। अत्र शैलवृत्तान्तोऽप्राकरणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षिपति / कचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते 'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी / ' अत्र विधौ वक्रे इति श्लिष्टम् / अप्राकरणिकस्थाणुवृत्तान्तात्प्राकरणिकार्थापतनम् / तुल्यबलविरोधो विकल्पः। . विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव यौगपद्यासंभवे विकल्पः / औपम्यगर्भत्वाचात्र चारुत्वम् / यथा-'नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौव्यों वा'. नुपादानाभ्यां संभवत्यस्या वैचित्र्यम् / तत्रोपादाने ग्रन्थकृतैवोदाहृतम् / अनुपादाने यथा-श्रीशारदापादरजःपवित्रः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः / यत्रोल्ल. सन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः // ' तत्र गर्भरूपेभ्योऽन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम् / श्लेषेणेति / श्लेषमूलयातिशयोक्त्येत्यर्थः / तुल्ये. त्यादि / एतदेव व्याचष्टे-विरुद्धयोरित्यादिना / तुल्यबलत्वादेवैकस्यापि बाधाभावान्नैकतरग्रहणम् / तच्च द्वयोरपि युगपत्प्राप्तिः / न च विरुद्धयोरेतयुज्यते इत्यत्रैकस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः / अत एव नियतोभयपक्षावलम्बी विकल्पः / ननु च ‘यवैीहिभिर्वा यजेत' इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशयाह-औपम्येत्यादि। औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम् / एवं च यत्रैवौपम्यगभत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः / यथा--'निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् / अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः // ' अत्रौपम्यगर्भत्वाभावाद्विक