________________ अलंकारसर्वस्वम् / 197 पभक्षणमात्सिद्धम् / एष न्यायो दण्डापूपिकाशब्देनोच्यते / ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणाद् यदर्थान्तरमापतति सार्थापत्तिः / न चेदमनुमानम् / समन्यायस्य संबन्धरूपत्वाभावात् / असंबन्धे चानुमानानुत्थानात् / अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेनेहाभिधानम् / इयं च द्विधा / प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः / अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः। आद्यो यथा'पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः / कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः // ' अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा 'धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् / रिपुसंज्ञके पु गणना क इव वराकेषु काकेषु // ' भावाच कन्न भवति / अन्यथा हि गोरिव गवय इत्यत्रापि कनः प्रसङ्गः / तदि. त्थमाद्य एव पक्षो ज्यायान् / नन्वत्र किमर्थसिद्ध्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशङ्कयाह-अत्रेत्यादि / एतदेव प्रकृते योजयति-ततश्चेत्यादिना / सामान्यन्यायत्वलक्षणादिति / येनैव न्यायेनैकस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः / नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्कयाह-न चेदमित्यादि / संबन्धरूपत्वाभावादिति / दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव। दण्डभक्षणेऽपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात् / अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः / इहेति। वाक्यन्यायमूलालंकारप्रस्तावे / द्विविधेयनेनापततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् / आपाततः पुनरर्थान्तरस्योपादाना