________________ 196 काव्यमाला। . दण्डापूपिकयार्थान्तरापतनमापत्तिः। दण्डापूपयोर्भावो दण्डापूपिका / 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुन् / पृषोदरादित्वाच्च वृद्ध्यभावः / यथा-अहमहमिकेत्यादाविति केचित् / अन्ये तु दण्डापूपौ विद्येते यस्यां नीतौं सा दण्डापूपिका नीतिः / एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेतिवन्मत्वर्थीयष्ठन्नित्याहुः / अपरे दण्डापूपाविव दण्डापूपिकेति ईवे प्रतिकृताविति कनं वर्णयन्ति / अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपू सा च यथा-'किमासेव्यं पुंसाम्' इत्यादौ / धुसरित्तटेश्वरंयोः सेवाया न युगपसंभावनमिति निषेधपर्यवसायी धुसरित्तट एवैकत्र सेवाया नियमः कृतः। अत एव च तत्प्रायिकमित्युक्तम् / दण्डापिकयेत्यादि / शब्दयोजनां तावदाह-दण्डेत्यादि / द्वन्द्वसंज्ञकत्वादस्यानेन वुञ्। शैष्योपाध्यायिकेतिवत् / ननु चास्य अचोऽणितीति जित्वादृद्धिः किं न भवतीत्याशङ्कयाह-पृषोदरेत्यादि / यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभांजां शब्दानां व्याकरणशास्त्रेण लोपागमवर्णविकारादि यदविहितं तद्भवति / लक्ष्यमूलत्वाव्याकरणस्य / तेनात्राविहितोपि वृद्ध्यभावोऽनेन सिद्धः / इतिशब्दो हेतौ / 'अत इनिठनौ' इति ठन् / एतच्च पक्षत्रयं सामान्येनैवाभिदधता ग्रन्थकृता खयमेवोपपन्नः पक्ष आश्रयणीय इति सूचितम् / तेनात्राद्य एव पक्ष आश्रयणीयः / पक्षान्तरयोरनुपपत्तेः / तथा चात्र ‘एकाक्षरात्कृतो जीतेः सप्तम्या च न तौ स्मृतौ' इत्याधुक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति / अथापि विषयनियमार्थस्येति करणस्यानापि संबन्धादिहापि भवतीति चेत् / न / एतद्धि नियतोदाहरणविषयम् / अन्यथा हि निषेधकस्याकरणप्रसङ्ग एव स्यात् / अहमहमिकाशब्दस्य पुनरेतदत्यन्तमेवायुक्तम् / अदन्ता-- त्प्रातिपदिकादनो विहितत्वात् / कनोऽप्यत्र न प्राप्तिः। तस्य प्रकृती गम्यमानायामिवार्थे वर्तमानात्प्रातिपदिकादुक्तत्वात् / अदन्तात्प्रातिपदिकादुक्तत्वात्प्रकृत्य 1. 'दण्डापूपिकायाम्' क; 'दण्डापूपिकायार्थापतनमर्थापत्तिः' ख. 2. 'एवमहो शक्तोऽहं शक्तोऽस्यामिति' क. 3. 'मत्वर्थे' ख. 4. 'इव प्रकृताविति' ख. 5, 'तत्सहभाव्यपूपाभक्षणं' ख. 6. 'जातौ' ख. 7. 'सप्तम्यांशयुतौ स्मृतौ' ख.