________________ अलंकारसर्वस्वम् / 195 ख्ययोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः / अत एव पाक्षिक्यपि प्राप्तिरत्र खीक्रियत इति युगपत्संभावनं प्रायिकम् / सति / तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते // ' इति / अत्रायमर्थः / इह कस्यचिदर्थस्य नियमेनाज्ञातस्य विधिः क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्यवस्यति तदा नियमविधिः / पुनरज्ञातज्ञापनमात्रपर्यवसित एव भवति / तेन नियमे 'व्रीहीनवहन्ति' इत्यादाववघातमात्रपर्यवसायित्वमेव / दलनादेरपि निषेध्यत्वेन पर्यवसानात् / नापि निषेधमात्र एव तात्पर्यम् / अवघाताभावे विध्यनिष्पत्तेः / सर्वप्रकारप्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्तरनिषेधमात्रार्थमेव यत्र पर्यवस्यति सा परिसंख्या / तेन ‘पञ्च पञ्चनखा भक्ष्याः ' इत्यादावन्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव / न पुनरेतत्पञ्चनखभक्षणकर्तव्यतापि / तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या मेदो वा न स्यात् / नादरणीयमिति / अनेनैव लक्षणेनोभयोः संग्रहात् / तथाहि नियमें 'समे देशे यजेत' इत्यादों यागस्य समविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम् / परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम् / नन्वत्र पञ्चपञ्चनखान्तरनिषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्येतलक्षणमिति चेत् / सत्यम् / अस्ति तावदामुखे पञ्चपञ्चनखविषये भक्षणे विधिः / यदास्यार्थान्तरनिषेधपर्यवसायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम् / तच्च नियमपरिसंख्ययोः समानम् / अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवेत्यनयोर्महान्भेद इति चेत् / न / अस्ति तावद्विधेरर्थान्तरे निषेधपर्यवसायित्वं समानं, यन्निबन्धनमनयोरलंकारत्वम् / यत्तु नियमे विधावपि तात्पर्य न तु परिसंख्यायाम् / तदनौपयिकत्वादिहानादरणीयम् / न हीह पञ्चानां पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामनयोरलंकारभेदः स्यात् / तथात्वे च सर्वालंकारभेदानां भेदहेत्वतिशयादिसंभवाद्भिन्नलक्षणप्रसङ्गेऽलंकारानन्त्यं स्यात् / अतश्चैतद्भेदत्वमेव नियमस्य वाच्यम् / तदाह-अत एवेत्यादि / स्वीक्रियत इति / भेदत्वेनेत्यर्थः / 1. भेदहेत्वतिशयांशसंभवात्' ख.