________________ 194 / काव्यमाला | किमाराध्यं पुण्यं किमभिलषणीयं च करुणा ___यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति // '. 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्ने / चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् // ' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते / काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति // ' अत्र चालौकिकं वस्तु गृह्यमाणं. वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरशब्दमानं वेति नियमाभावः। अलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम् / यथा 'विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि / बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः // ' __ यथा-'चित्रकर्मसु वर्णसंकरो, यतिषु दण्डग्रहणानि' इत्यादि श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् / अत्र च नियमपरिसं रीश्वरादि सेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम् / अत्रेति। एषूदाहरणेषु / अलौकिकमिति / कविप्रतिभानिर्वर्तितम् / गृह्यमाणमिति / विधीयमानतया / वस्त्वन्तरव्यवच्छेद इति / अर्थान्तरनिषेधमात्रतात्पर्यात् / नियमाभाव इति / नपत्र व्यवच्छेद्यस्य शाब्दत्वार्थत्वाभ्यां कश्चिलक्षणभेद इति भावः / अलौकिकत्वाभिप्रायेणेति / नहि ‘पञ्च पञ्चनखा भक्ष्याः' इत्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः। क्वचिदिति / कुत्राप्यप्रश्नपूर्वकत्वमपि भवेदिति भावः / श्लेषसंपृक्तत्वमिति / श्लेषशब्दश्चात्र श्लिष्टशब्दनिबन्धनाया. मतिशयोक्ती वर्तते। तथात्वोक्तेश्चातिशयोक्तिमात्रसंपृक्तत्वे न तथा चारुत्वं भवतीति प्रयोजनम् / अत्यन्तेति / पूर्वोदाहरणेभ्यः। ननु नियमपरिसंख्ये भिन्नलक्षणे प्रसिद्ध इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्कयाह-अत्रेत्यादि / वाक्यविदो मीमांसकाः / यदाहुः-'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके 1. 'लौकिकं' ख. 2. 'वस्त्वन्तरं शाब्दमार्थं वेति' ख. 3. 'निवर्तितम्' क.