________________ अलंकारसर्वस्वम् / 193 'दत्वा दर्शनमते मत्प्राणा वरतनु त्वया क्रीताः / किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् // ' अत्राद्ये समपरिवृत्तिः / द्वितीयाथै न्यूनपरिवृत्तिः / एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या। एकानेकप्रस्तावादिह वचनम् / एक वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या / कस्यचित्परिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या / सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा / प्रत्येकं च वर्जनीय. त्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः। क्रमेण यथा "किं भूषणं सुदृढमत्र यशों न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः / किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् // ' 'किमासेव्यं पुंसां सविधमनवयं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः / रणेऽपि समपरिवृत्त्यादि योजयति--दत्वेत्यादिना / एकानेकेति / पर्याये एकस्यानेकत्र पर्यवसानादेरक्तत्वात् / असंभाव्य इति / कविप्रतिभानिर्वर्तित. त्वाभावाल्लोकोत्तर इत्यर्थः / न पुनः प्राप्तिविषयत्वेनासंभाव्यत्वं व्याख्येयम् / सर्वथाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या / अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम् / अपवर्जन इति / 'अप परीवर्जने' इति वचनात् / सेति / यथोक्तरूपा / एषेति / परिसंख्या। किं भूषणमिति प्रश्नपूर्वकत्वम् / न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम् / न पुन 1. 'तस्यासंभाव्य एकत्र' ख. 2. 'परिवर्जने कस्यचिद्वर्जने' ख. 3. 'वर्जनीयत्वस्य क. 13 अ० स०