________________ अलंकारसर्वस्वम् / 189 एकमनेकसिन्ननेकमेकसिन्क्रमेण पर्यायः। , क्रमप्रस्तावादिदमुच्यते / एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः / नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः। तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्-क्रमेणेति / इह च क्रमोपादानादर्थात्तत्र योगपद्यप्रतीतिः / तेनास्य ततो विविक्तविषयत्वम् / तथा एकमिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः। नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थमपि क्रमेणेति योज्यम् / अत एव गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रहणम् / अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् / तस्मात् / 'अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम् / परिच्छदसुहृद्वन्धुविषयेन्द्रियजीवितैः // ' इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात् / न चात्र तादृक्कश्चिद्विशेष उपलभ्यते / येनानलंकारत्वं स्यात् / एवम्-'आस्तामस्तमयोऽहमित्यभिमतेर्दैहादिमात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि / अस्माकं वसुवेश्मनिष्कुंटनदीसीमानुकेदारिकादेशक्ष्मेशदिगादिकेष्वपि कथं सा हन्त नास्तं गता // ' इत्यत्रापि ज्ञेयम् / एकमित्यादि / इदमिति पर्यायलक्षणम् / तदेव व्याचष्टे-एक मित्यादिना / एक इति द्वितीयापेक्षया / अतश्च द्वौ पर्यायौ / न. पुनरेक एव / सामान्यलक्षणायोगात् / अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ / यदाह—'एकं क्रमेणानेकस्मिन्पर्यायः' इति / 'अन्यस्ततोऽन्यथा' इति च / ग्रन्थकृता त्वनयोरत्रान्यस्यान्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक्त इति दूषणोद्भावनयैवं लक्षणं कृतम् / एवं क्रमेणैकमनेकत्रान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति नन्वित्यादिना / किमर्थमिति / विशेषालंकारेणैव तत्प्रतीतिसिद्धेः। अर्थादिति / पारिशेष्यात्मकात्सामर्थ्यादित्यर्थः / तेनेति / क्रमयोगपद्यरूपत्वेनेत्यर्थः / तत इति / विशेषात् / तथेत्यादि / अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना / अत एवेति / विशेषसमुच्चययोर्योगपद्यसंभवात् / अन्वर्थमिति / 'परावनुपात्य इण्' इत्यने