________________ 188 काव्यमाला। आद्यस्योदाहणम्. 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां / देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा / इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं __चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः // ' अत्र लावण्यौकःप्रभृतीनामिन्द्रादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् / यथा. 'कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः / जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु / ' अत्र,कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते / अर्थानुगमानुसारेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम् / त्वात् / उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रसज्यते / यदुतम्-'क्रमहीनार्थमपक्रमम्' इति / तच्च यथा-'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसाविव' इति / दोषाभावमात्रं च नालंकारत्वम्। तस्य कविप्रतिभात्मकविच्छित्तिविशेषत्वेनोक्तत्वात् / तत्त्वे चास्य 'यथासंख्यमनुदेशः समानाम्' इत्यादिसूत्रोदाहरणानां 'तूदीशलातुरवर्मतीकुचवाराडक्छण्ढञ्यकः' इत्यादीनामप्यलंकारत्वप्रसङ्गः / एतच्च वक्रोक्तिजीवितकृता सप्रपञ्चमुक्तमित्यस्माभिरिह नायस्तम् / ग्रन्थकृता पुनरेतदुद्भटमतानुयायितया लक्षितम् / एवमासत्तिविप्रकर्षवतां तदपेक्ष उपदेशाक्रम इति लक्षितः। क्रमोऽप्यनलंकार एव / दोषाभावमात्ररूपत्वात् / आदिपश्चानिर्देश्यानामतथानिर्देशे ह्यपक्रमाख्य एव दोषः स्यात् / यथा-'तुरङ्गमथ मातङ्गं मे प्रयच्छ मदालसम् / ' अत्र गजाश्वयोरादिपश्चानिर्देश्ययोरप्यतथानिर्देशादपकमत्वम् / अनयोश्च स्वस्थाननिर्देशे दोषाभावमात्रत्वम् / न पुनरलंकारत्वम् / 1. 'अस्य' क.