________________ * इति रत्नाकरशोकस्थितःप्राचां शब्दालङ्कारसंकरो दूषितः / स च मम्मटेन दशमोल्लासे समर्थितः / अपि च रुय्यकेण यद्व्यतिरेकालङ्कारे-उपमानादुपमेयस्याधिक्यमित्यपरो लक्षणप्रकारो लक्षितः, सोऽपि 'क्षीणः क्षीणोऽपि शशी' इति तदीयोदाहरणमुपदर्य निराकृतः / अन्यच्च 'स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम्' इत्यादिकारिकाव्याख्यानेऽलङ्कारानुद्दिश्य 'कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्येति चेत्'-इति पूर्वपक्षीकृत्य समाधेरुपक्रमे आनुषङ्गिकतया-'योऽलङ्कारो यदाश्रितः स तदलङ्कार'-इत्यादिना रुय्यक एव प्रत्युक्तः / एतेन नवमोल्लासे श्लेषभेदाख्यानावसरे–'ननु स्वरितादिगुणभेदात्' इत्यारभ्य 'कथमयं शब्दालङ्कारः' इत्यन्तः पूर्वपक्षग्रन्थोऽपि रुय्यकमतनिरासपरः संगच्छते / इत्थमन्यैरुपदर्शितः कालक्रमश्चेदास्थीयेत तर्हि कथमिव पूर्ववर्तिना परवर्तिनो मतमालोच्येत? कथं च तत् श्रद्धेयं स्यात् ? अपरं च, प्रकाशटीकाकृद्भिस्तत्र तत्र प्रघट्टकेषु मूलग्रन्थयोजनायां नामग्राहं सर्वस्वकृतोक्तिर्विवृता / यत्तु जयरथेन विमर्शिन्यां-'अन्ये, केचित्' इत्यादिमूलप्रतीकमुपादाय बहुत्र 'काव्यप्रकाशकारः' 'काव्यप्रकाशकारादयः' इत्येवं विवृतं तत्तस्य समयानभिज्ञतया प्रामादिकमित्यवधेयम् / परमत्र दाक्षिणात्यस्य समुद्रबन्धस्यैवंविधो भ्रमावर्तपातः कथमिवोपेक्षणीयः प्रेक्षावताम् / इयता चालङ्कारसर्वस्वस्य मङ्खकर्तृकत्वं च संगमयन् कथमिवासौ नोपालभ्यः। कथं च तदुक्तिषु प्रत्ययोत्पत्तौ कश्चिदप्यात्मनि बहुमानः स्यादिति सुदूरेक्षिकया पर्यालोच्यम् / राजानक-जयरथः।। - अयं राजराजनृपमन्त्रिप्रवरस्य शृङ्गारकवेः सूनुः हरचरितचिन्तामणेः कर्ता ख्रिस्तवर्षस्य द्वादशशतकोत्तरार्धे कश्मीरेषु बभूव। अयमेवालङ्कारसर्वस्वस्थ विमर्शिनीनाम व्याख्याकारः / इयं विमर्शिनी ग्रन्थगौरवानुरूपं विवेचयन्ती प्रमेयशय्योपकल्पनासु विदग्धा सर्वाङ्गसुभगेति च न मनागपि संशयः / व्युत्पित्सूनां प्रतिभावैशद्यार्थं पुनरतितरामुपकीं / यत्र पुनः सर्वस्वे क्वाप्यलङ्कारभेदप्रपञ्चः संक्षेपितस्तत्रेयमुदाहरणान्तरैर्विषयजातं प्राञ्जलीकरोति। परं मूलोद्दिष्टासूदाहृतिषु प्रायेण मौनं भजन्ती प्रौढेतरानध्यापकान् विशेषतोऽध्येतूंश्च क्लिनात्येव / यद्यप्यलङ्कारोदाहृतिषु योग्यतां वहन्त्यः काश्चन लक्ष्यव्यक्तयो नियताः, प्राचीनेषु नवीनेषु च साहितीसन्दर्भेषूदाह्रियमाणाः, कचन पाठान्त