________________ दर्शितमेव / किंच 'तस्वोक्तिकोशः' कोऽपि महिमकृत इति व्यक्तिविवेका. ज्ज्ञायते 'इत्यादि प्रतिभातत्वमस्माभिरुपपादितम् / शास्त्रे तत्वोक्तिकोशाख्य इति नेह प्रपञ्चितम् // ' (व्यक्तिवि. 2 विमर्शः) मम्मटः। इह काव्यप्रकाशकर्तुर्मम्मटाचार्यस्य क्रियमाणा स्थितिकालकलना तावदापाततश्चर्वितचर्वणेव प्रतीयते / परमद्यावधि निर्णीतः स्थितिकालः पूर्वापरप्रेक्षिकया बहु विरुध्यत इत्यस्माकं रुय्यकसमयनिर्णये विरोधापातादुपनतमिति सामञ्जस्यमास्थातुमावश्यकीयं विचारणा। काव्यप्रकाशस्य निर्माणकालोऽनुमानमन्तरा निर्णेतुमशक्य एव / दृढतरप्रमाणानुपलम्भात् / एवमिह विसंवादाधेः संक्रमणं न खल्वाश्चर्यावहम् / तथाचात्र विरोधपरिहारायायमुपक्रमः-सरस्वतीकण्ठाभरणादिविविधग्रन्थरचयितुर्भोजदेवस्य जीवितकाल (996-1051 खि.) स्तहानपतो व्यक्तः। मम्मटश्च 'भोजनृपतेस्तत्यागलीलायितम् / ' इति पद्यमुदात्तालङ्कार उदाहृतवानिति तत्समयमनुरुध्य मम्मटस्य सत्ता साधनं कैश्चित्-क्रियते / तद् हेत्वाभासमात्रत्वान्न प्रमाणक्षमम् / ततो ज्येष्ठेऽलङ्कारसर्वस्वेऽपि तदुपलम्भात् / एवं प्रकाशटीकासु प्रथमत्वेन संभाविता जैनमाणिक्यचन्द्रस्य 'सङ्केत'नाम्नी टीका 1216 विक्रमाब्दे निर्मितेति तदन्ते 'रसवक्रग्रहाधीश(१२१६)वत्सरे मासि माधवे / काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः // . . इति स्वोक्त्या समर्थनात्प्रमाणान्तरनिरपेक्षम् / तथाचानयोरन्तःपातिना मम्मटेनैकादशशतके काव्यप्रकाशो निरमायित्यनुमानमपि न निर्बाधम् / वस्तुतस्तु द्वादशशतकस्य पूर्वार्धान्ते तन्निर्माणमभूदिति सयुक्तिकः पन्थाः। रुय्यको हि ख्रिस्ताब्दस्य द्वादशशताब्धाः पूर्वभागवर्तीति समनन्तरमेवोक्तम् / अनेन च संकरालङ्कारं विचारयता 'राजति तटीयमभिहत दानव-रासातिपति साराव नदा / गजता च यूथमविरत-दानवरा सातिपाति सारा वनदा // (हरविजयं 5 सर्गः।) . काव्य का