________________ रश्लिष्टा अप्यर्थगत्या परस्परं संवदन्यस्तत्र तत्रोपलम्वन्त एव / अथाप्यत्र तासामर्धाधिकानां विभिन्नस्थानवर्तितया बहुत्राननुगमापाताल्लक्षणसङ्गतिरायाससाध्या भवति / क्वचित्तु पुनर्बहुश्रुता अपि व्यामोहभाजो भवन्ति / अथापि सर्वभावेन गुणानां बहुलत्वे प्रसज्यमानोऽसौ दोषो न विचारसहः / अयमेवाचार्याभिनवगुरुपादानां तन्त्रालोकमहार्णवस्य कर्णधारोऽपिजसे। समुद्रबन्धः / एष जयरथादर्वाचीनः कोलम्बाधीशस्य रविवर्मणः पण्डितसभामणीः 1265 तमे खिस्ताब्दे तदन्तिके व्यराजत् / राज्ञः प्रेरणया चालवारसर्वस्वं व्याकरोत् / सा चास्य व्याख्या विशेषविचारविकला सङ्कुचिताङ्गा प्रायेण सूत्रोदाहरणे योजयन्ती न तथोपकारिणी यथा विमर्शिनी / मूलोदाहरणेषु यत्र यत्रावान्तरभेदाः सङ्केतिताः, तत्र सर्वत्रायं प्रायेण रविवर्मणः स्तुतिपराण्येव पद्यान्युदाजहार / तान्यस्यैवान्यस्य वेति को निर्णयेत् / अस्य प्रस्तुतं संस्करणं पुस्तकद्वयाधारेण संपादितम् / तत्रैकं 1893 ईशवीयाब्दे काव्यमालायां प्रकाशितमपरं 1915 ईशवीयाग्दे "अनन्तशयनं संस्कृतग्रन्थावलौ” मुद्रितम् / अनयोश्च तत्तत्स्थलीयान् पाठभेदान् सम्यक् पर्यालोच्यान्यतरो विन्यस्तः / उदाहरणश्लोकाश्च यत्रान्यथाकारा आसन् , तत्र तत्तद्ग्रन्थेभ्यः संवाद्य योजिताः। पर्यन्ते च श्लोकानुक्रमेण सह यावदुपल. ब्धानि कवीनां तद्न्थानाञ्च नामान्यपि सनिवेशितानि / . इत्थमत्र प्रस्तावनासंपादने आयुष्मता श्रीगङ्गाधरद्विवेदेन पूर्वापरसाहित्यविषयान् मूलतः प्रमाणीकृत्यात्मनः साहित्यपरीक्षां ददता बहुभाषाविदामेकान्ततो निर्णीतविषयान्पर्यालोच्याङ्गीकुर्वता यन्मह्यमुपहृतं, तदस्य नव्यभावुकतां विमृश्यार्पित समुदीयादिति निःश्रेयसकामस्तमाशीभिरभियोज्य विश्रम इति शिवम् / 'सरस्वती-पीठम्' जयपुरम् 3 / 10 / 38 श्रीगिरिजाप्रसादद्विवेदः।