________________ अलंकारसर्वस्वम् / 185 प्रतिपादितं वहिं गमयन्तीत्यनुमानम् / रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण विच्छित्त्याश्रयणात्तर्कानुमानवैलक्षण्यम् / . क्वचित्तु शुद्धमपि भवति / यथा 'यत्रता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं ___यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः / तच्चक्रीकृतचापमञ्चितशरप्रेयस्करः क्रोधनो .. धावत्यप्रत एव शासनधरः सत्यं सदासां स्मरः // ' अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम् / प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् / अयमत्र पिण्डार्थः-इहास्ति प्रत्याय्यप्रत्यायकभावः / अस्ति च समर्थ्यसमर्थकभावः / विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः / कैपकमूलत्वेनेति / रूपकमन्तरेणानुत्थानात् / ननु चास्यालंकारान्तरगर्भीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमित्तम् , उतान्यदपि किंचिदित्याशङ्कयाह-क्वचिदित्यादि / अनलंकृतमिति / शासनधर्मादेः प्रौढोक्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तरगर्भीकाराभावात् / अतश्चास्य कविकमैव वैलक्षण्यनिमित्तमिति भावः / तदाहप्रौढोक्तीत्यादि / एवं च कविकर्माभावाद्यत्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-'यो यत्कथाप्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः / स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु // ' अत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वर्तितत्वाभावानायमलंकारः। यथा-'प्रजानां विनयाधानाद्रक्षणाद्भरणादपि / स पिता पितरस्तासां केवलं जन्महेतवः // ' अत्र विनयाधानादिहेतूनां वास्तवत्वादनलंकारत्वम् / न पुनरत्र हेतोरार्थत्वाभावादनलंकारत्वमिति वाच्यम् / कविकर्मण एवालंकारनिबन्धनत्वेनोकत्वात् अर्थत्वस्य तदप्रयोजकत्वात् / न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणा 1. 'शुद्धमेव' क. 2. 'यथा' इति ख-पुस्तके नास्ति. 3. 'रूपकमूलमेवेति' क. 4. 'शासनधरादे:' क.