________________ 184 काव्यमाला / साध्यसाधननिर्देशोऽनुमानम् / यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निदिश्यते, सोऽनुमानालंकारः / विच्छित्तिविशेषश्चात्रार्थादाश्रयणीयः / अन्यथा तर्कानुमानास्किं वैलक्षण्यम् / उदाहरणम्'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति ___ स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः / यथा विद्युज्ज्वालोज्वलनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लगः पथिकतरुखण्डे सरदवः // ' अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वहिलिङ्गानि त्रिरूपत्वाद्दवशब्द हेतोरलंकारत्वं स्यात् / एवमुदाहरणान्तरेष्ववसेयम् / एवं च यत्रापि व्यङ्ग्याश्लेषः स्यात्तत्रापि हेतोर्वाक्यार्थपदार्थतयोपनिबन्धे न कश्चिदतिशयः। अथ साध्यप्रतीतये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेत् / त_नुमानमेवेदं स्यान्नालंकारान्तरम् / साध्यसाधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात् / एवं हेतोर्वाक्यपदार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम् / उक्तवक्ष्यमाणनीत्यानुमान एवान्तर्भावोपपत्तेः / साध्येत्यादि / एतदेव व्याचष्टे-यत्रेत्यादिना / एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तर्कानुमानसमानकक्ष्यमेवास्य लक्षणमिति भावः / यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्कयाह-वि. च्छित्तीत्यादि / तच्चानुमानं द्विधा / खार्थ परार्थं च / तत्र खार्थ यत्र मया. यमवगतोऽर्थ इति खपरामर्षस्य निश्चयः स्यात् / परार्थं तु यत्र परेणानवगतस्य वस्तुनः प्रतिपादनात्परप्रत्यायकत्वं स्यात् / एवं च / स्वार्थपरार्थभेदेन द्विविधमनुमानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् / उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्येवोपपत्तेः। तत्र स्वार्थानुमानं, यथा ग्रन्थकृतैवोदाहृतम् / तत्र हि स्मरदवो लग्न इति स्वपरामर्षस्यैव निश्चयः। परार्थानुमानं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् / ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति // ' अत्र दिवासंचरणस्य कार्यस्य