________________ काव्यमाला। तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः / प्रतीतप्रत्यायने तु समर्थसमर्थकभावः / तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् / समर्थ्यसमर्थकभावे तु यत्र पदार्थों हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वचि कर्कशत्वात्' इत्यत्र न कश्चिदलंकारः। यत्र तूपात्तस्य हेतुत्वं यथोदाहृते विषये 'मृग्यश्च दर्भाङ्करनियंपेक्षाः' इत्यादौ तत्रैव काव्यलिङ्गम् / यत्र तु वाक्याओं हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव / तटस्थत्वेनोपन्यस्तस्य तु हेतुत्वेऽर्थान्तरन्यासः / एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोहेतुत्वे काव्यलिङ्गमेव पर्यव. सति / समर्थ्यवाक्यार्थस्य सापेक्षत्वात् / ताटस्थ्याभावात् / ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः / यत्पुनरर्थान्तरन्यासस्य कार्यकारंणगतत्वेन समर्थकत्वमुक्तम् , तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य तद्विषयत्वेन लक्षणान्तरस्यौद्भटैराश्रितत्वात् / , लंकारत्वं स्यात् / तच्छाब्देऽपि.हेतौ क्वचित्कविप्रतिभानिवर्तितत्वेनालंकारत्वाभ्यु. पगमे न कश्चिद्दोषः / ग्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम् / तन्मतमेवाधिकृत्य ह्ययमत्रेत्यादिना विचारः प्रस्तुतः / तत्रेति द्वयनिर्धारणे / प्रतीतेति / बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः / न कश्चिदलंकार इति / हेतुमात्ररूपत्वात् / हेतुत्ववाचकं विनापि तदधिगमे ह्यस्य चारुत्वातिशय इति भावः / यद्वक्ष्यति-हेतुत्वप्रतिपादकमन्तरेणेति / उपात्तस्येति / पारिशेष्यापदार्थस्य हेतुत्वेनोपादानाभिधानात् / एकमिति पदार्थगतम् / हेतुत्वप्रतिपादक इति शब्दादिः / तटस्थत्वेनेति / न तु हेतुत्वेनेत्यर्थः / अत एव चानयोर्भेदः। ततश्चेति पारिशेष्यात् / ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्यका. रणगतत्वेन समर्थकत्वमुक्तमित्याशङ्कयाह-यत्पुनरित्यादि / लक्षणान्तरस्येति / पदार्थगतत्वेनैवेष्टेः / यदाहुः-'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा / 1. 'इत्यादाविव' ख. 2. 'हेतुत्वप्रतिपादकं' ख.