________________ अलंकारसर्वस्वम् / 181 एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः / अधुना तेर्कन्यायाश्रयेणालंकारद्वयमुच्यते / तत्र हेतोर्वाक्यपदार्थता काव्यलिङ्गम् / / यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबध्यते तत्काव्यलिङ्गम् / तर्कवैलक्षण्याथ काव्यप्रहणम् / न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते / वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबद्धव्यः, नोपनिबद्धस्य हेतुत्वम् / अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात् / क्रमेण यथा त्तरमुत्कर्षः / एवं 'जये धरित्र्याः' इत्यादौ सारत्वमुखेन बोद्धव्यम् / यदाहात्रेत्यादि / यथा वा-'त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् / तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् // ' अत्र बहूनां श्लाध्यत्वेनोत्तरोत्तरमुत्कर्षः / यत्त्वन्यैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम् / तत्तेषां नाममात्रनवीकरणरसिकत्वम् / अस्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षोपनिबन्धनात्मकत्वात्समाविषयावगाहनसहिष्णुत्वात् / तस्मादस्मिंश्च वर्धमाने सारोपान्तर्भावमेति। न पुनरिदमन्तर्भूतं सारे परिमितविषये महाविषयमित्याद्युक्तमेवोक्तम् / एतदुपसंहृत्यान्यदवतारयति -एवमित्यादिना / तत्रेति द्वयं निर्धारणे / हेतोरित्यादि / यति / हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धादस्यानेन सह भेदद्वयमप्युक्तम् / वाक्यार्थगत्येति / न तु पदार्थगत्या / तंत्र ह्युपनिबद्धस्यैव हेतुत्वात् / हेतुत्वेनैवेति / हेतुत्वस्यामुख एवोदिक्तत्वेन प्रतीतेः / अन्यथेति / हेतुत्वेनोपनिबन्धो यदि न स्यात् / ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चिद्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम् / न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरेकेणोपनिबन्धः स्यात् / न च यथासंभविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम् / कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोकत्वात् / न चैवमुपनिब- 1. 'प्रदर्शिताः' क. 2. 'तत्कान्यायाश्रयेणा' ख. 3. 'तत्र' इति क-पुस्तके नास्ति. 4. 'उपसंहारादयः क्रियावाक्यार्थगत्या' ख. 5. एतत्पर्यन्तं ख-पुस्तके नास्ति. 6. 'यत्रेति' इति ख-पुस्तके नास्ति. 7. 'हेतुत्वम्' ख.