________________ 182 काव्यमाला। 'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी / येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता. स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते // 'मृग्यश्च दर्माकुरनियंपेक्षास्तवागतिज्ञं समबोधयन्माम् / व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि / ' पूर्वत्र पादत्रयार्थोडनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुत्वेनोपन्यस्तः। उत्तरत्र तु संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेकः पदार्थों हेतुत्वेनोक्तः। न्धात्कश्चिदतिशय इति कथमस्यालंकारत्वम् / एवं हि दृक्त्वाभासैव न्यायेन वेद्येसादावपि खाभासत्वस्य हेतोर्विशेषणद्वारेण पदार्थगत्या, तथा 'प्रत्यक्षाद्विरलकरानुलिप्रतीतिर्व्यापित्वादकुशलमिन्द्रियं न तस्याम्' इत्यादौ तमसि विरलाङ्गुलिप्रतीतो व्यापित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंकारत्वं स्यात् / सत्यम् / यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते / तथापि ग्रन्थकृता प्राच्यैलक्षितत्वादेतदिह लक्षितम् / अथ यत्र व्यझ्याश्लिष्टो वाच्यार्थो वाच्यमेवार्थ प्रति हेतुतां भजते तत्रायमलंकारो युज्यत एवेति चेत् / तर्हि व्यङ्ग्याश्लेषवशेन तदुत्थानाद्वाक्यार्थपदार्थतयोपनिबद्ध्यमानस्य हेतोः खात्मनि न कश्चिदतिशय इति व्यङ्ग्यकृत एवातिशयोऽभ्युपगम्यते / न तत्कृतः / तस्यैवमुपनिबद्धस्य वास्तव्यत्वात् / यदि च व्यङ्ग्यसाहचर्येणैव हेतुरलंकारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते / यदि तत्रापि व्यङ्ग्याश्लेषः स्यात् / अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे निमित्तत्वं कथं न यायात् / अथ तत्र व्यङ्ग्याश्लेषो न भवतीति चेत् , किं नामापराद्धम् / येनात्र व्यङ्ग्याश्लेषस्तत्र च नेति / तथात्वेन लक्ष्यादर्शनादिति चेत् , नैतत् / अवाग्दार्शन एवं निश्चयानुपपत्तेः / प्रत्युत यत्र भवता व्यङ्ग्याश्लेष उक्तस्तत्र स नास्तीति वक्तुं शक्यते / तथाहि / 'वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्ग 1. 'अनेकार्थवाक्यार्थरूपः' क. 2. 'चतुर्थपादाथै' क.