________________ 180 काव्यमाला। यथा'जये धरियाः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः। तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् // ' अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्वेत्यादि योजनीयम् / यथा "राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् / सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वखम् // ' अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् / / स्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम् / अत एव चास्योत्तरोत्तरस्योत्कर्षोपनिबद्धादन्वर्थत्वम् / तत्रैकस्य खरूपेणोत्कर्षो यथा-'किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्र वा वारिजं वेल्यमरयुवतिभिर्यद्वलिद्वेषिदेहे / ऊर्चे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमाणः क्रमेण // ' अत्रैकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः। धर्मेणापि यथा-'अतसीकुसुमप्रभं मुखे तदनु त्वत्कचमेचकद्युति / अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः॥' अत्रैकस्यैव तमसो निबिडत्वाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः / अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्रभादिकस्यावस्थानात्पर्यायत्वम् , तथापि तमसो नैबिड्यं यथायथमुत्कृष्टतया वाक्यार्थीभूतमिति यथोक्तमेव युक्तम् / बहूनां खरूपेणोत्कर्षो यथा-'अत्युच्चास्तरवः स्फुरन्ति गिरयः खासिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युन्नतम् / तस्मात्सर्वत एव साधुहृदयान्युत्तुङ्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवी चिन्तामणे तन्वते // ' अत्रानेकेषां पूर्वापेक्षया स्वरूपेणोत्तरोत्तरमुत्कर्षः / धर्मेण यथा'कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वयूढभरो बिभर्ति तमपि प्रीतो भुजंगेश्वरः / श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरुषकथा श्रीकर्ण निर्नाशिता // ' अत्र कैटभारिप्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरो.