________________ अलंकारसर्वस्वम् / 179 श्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् / गुणावहत्वमुत्कर्षहेतुत्वम्। यथा'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् / कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् // अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षो विहितः। समासादनल क्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम् / उत्तरोत्तरमुत्कर्षणमुदारः। . पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिबन्धनत्वमुदाराख्योलंकारः / क्षणात् / अत एवास्य दीपकभेदत्वं न वाच्यम् / औपम्यजीवितं हि तत् / प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम् / शृङ्खलात्वेन तु विशिष्टमस्य चारत्वमितीह लक्षणं युक्तम् / एतच्च दीपक एव ग्रन्थकृतोक्तम् / छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति / अत्रेत्यादि / उत्कर्षश्च शरादीनां कोदण्डादिसमासादनलक्षणः / दीपनविषयाणामिति / कोदण्डशरादीनाम् / अत एवास्य दीपकमित्यन्वर्थमभिधानम् // उत्तरेत्यादि / एतदेव व्याचष्टेपूर्वेत्यादि / एतच्चैकस्यैव वस्तुनो बहूनां वा स्यादित्यस्य द्वैधम् / तेन पूर्वत्र पूर्वपूर्वेत्युत्तरस्येति चावस्थाविशेषाभिप्रायेण व्याख्येयम् / अन्यथा ह्येकस्यैव पूर्वत्वमुत्तरत्वं च कथं स्यात् / एवमप्युत्तरोत्तरमुपचयः खरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यम् / एवं प्रकृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपादनं स्यादित्यलंकारबीजम् / यदुक्तम्-उत्तरोत्तरमुत्कर्षों भवेत्सारः परावधिरिति / पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीपकादस्य भेदोऽप्युक्तः / तत्र हि पूर्व.. 1. 'हेतुकं' क. 2. 'दीपनविषयाणाम्' ख. 3. 'उत्तरोत्तरमुत्कर्षः सारः' ख. 4. अयमेव काव्यप्रकाशकारादिभिः 'सार' नाम्ना व्यवहृतः / वेदेऽप्ययमलंकारो दृश्यते। यथा-महतः परमव्यक्तमव्यक्तात्पुरुषः परः / पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः // ' 5. 'निबन्धनं सारः' ख. 6. 'प्रस्तावान्तरेण' क. 7. 'चार्ववस्था' क.