________________ 178 काव्यमाला। यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः / विशेषणत्वं च स्थापनेन निवर्तनेन वा / स्थापनेन यथा'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः / रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य // ' अत्र वराङ्गनाः पुराणां विशेषणं स्थापनीयत्वेन स्थितम् / एवं वराजनानां रूपमित्यादि ज्ञेयम् / निवर्तनेन यथा 'न तज्जलं यन्न सुचारुपङ्कजं नं पङ्कजं तद् यदेलीनषट्पदम् / 'न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः / / ' अत्र जलस्य सुचारुपङ्कजवं विशेषणं निषेध्यत्वेन स्थितम् / एवं पङ्कजानामलीनषट्पदत्वं ज्ञेयम् / - पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् / उत्तरोत्तरस्य पूर्वं पूर्व प्रत्युत्कर्षहेतुत्वे एकांवली / पूर्वस्य पूर्वस्योचरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् / मालात्वेन चारुत्वविशेषमा त्यादि / परं परमिति / अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः / खरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिष्ट्यमवगम्यते तद्विशेषणम् / यद्वक्ष्यति / उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति / एकावल्य. लंकार इति / पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपतिरूपत्वात् / पूर्वेत्यादि / अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि / उत्कर्षनिबन्धनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम् / तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् / ननु चास्य प्राच्यैर्दीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्याह-मालात्वेनेत्यादि / मालाशब्देनात्र शृङ्खला लक्ष्यते / तस्या एवोपक्रान्तत्वात् / न चात्र मालोपमावन्मालाशब्दो ज्ञेयः / एकस्योपमेयस्य बहूपमानोपादानाभावात् / अत्र ह्यौपम्यमेव नास्ति / कोदण्डशरादीनां तस्याविव. 1. 'द्विधा भवति' ख. 2. 'वराङ्गनारूपमित्यादि' ख.