________________ अलंकारसर्वस्वम् / 175 व्यतिरेकनिमित्तत्वेनात्रोक्तः / विरूपाक्षस्येति वामलोचना इति च व्यतिप्रकरेकगर्भावेव वाचकौ / जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह रणं लक्षणम् / प्रकारान्तरेणाप्ययं भवतीत्याह__ सौकर्येण कार्यविरुद्धक्रिया च व्याघातः / किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबन्धनत्वायाघातः / कार्यविरुद्धकार्यनिष्पत्तिश्च कार्यापेक्षया सुकरा / तस्य कारणस्यात्यन्तं तदानुगुण्यात् / नत्वत्र कार्याभिमतस्य कार्यत्वाभावः / तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् / अत एव द्वितीयाद्विषमाद्भेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् / इह तु कार्यमकार्यमेव न भवति / तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टुकार्यत्वात् / यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु वैलक्षण्यमवश्याभ्युपगन्तव्यम् / अतश्चास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात्। पूर्ववदित्यानुरूप्यपरिहारात् / स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्षणात् / प्रकारान्तरेणेति प्रतीतिमेदात् / अयमिति व्याघातः। तमेवाह-सौकयेणेत्यादि / एतदेव व्याचष्टे-किंचिदित्यादिना। संभाव्यमान इति केनचिदन्येन / तत्कार्येति / तच्च तत्कार्य निष्पादयितुं प्रक्रान्तम् / अत एवास्य प्रथमायाघाताद्भेदः / तत्र हि येनकेनचिदुपायेन निष्पादितं सद्वस्तु तथैवान्येनान्यथाक्रियत इत्युक्तम् / इह तु किंचिन्निष्पादयितुं संभाव्यमानस्य कारणस्य तद्विरुद्धनिष्पादकत्वेन समर्थनम् / तद्विरुद्धनिष्पत्तेश्च सौकर्य किमुक्तमित्याशझ्याहकार्येत्यादि / तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात् / न त्विति / अपि तु 1. 'परिनिष्पादकत्वेन' ख. 2. 'तस्याकारणस्य' ख. 3. 'कार्य कार्यमेव' ख.