________________ 174 काव्यमाला। 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः // ' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् / मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते / तच्च दाहविषयत्वस्य प्रतिपक्षभूतम् / तेन व्याघाताख्योऽयमलंकारः / सोऽपि एव 'उत्पत्तिविनाशयोरेकोपायत्वे व्याघातः' इति न सूत्रणीयम् / एवं हि व्याघातत्वमेव न स्यात् / 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् / प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाङ्कुशाः // ' इत्यत्र च. कुलादयो यथान्येषां दर्पहेतवो न तथा तव / प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषा• न्तरेभ्योऽस्य वैलक्षण्यमानं विवक्षितम् / न तु कुलादिभिरुत्पादितोऽपि दपेस्तव व्याहत इति येन व्याघातालंकारो भवति / अथात्र दर्पकारिणोऽपि कुलादेस्तद्विनाश इत्ययमलंकार इति चेत् , नैतत् / कुलादीनां प्रकृतिभेदेन दादर्पकारित्वस्य वास्तवत्वेनालंकारत्वात् / तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेना. यमलंकारः / निष्पादितवस्तुव्याहतेरभावात्तन्निबन्धनत्वेन चास्योक्तत्वात् / 'विण्णाणेण मअविसं विणिवट्टइ भिण्णकारणुप्पण्णं / विण्णाणकारणं जं तं पुण भण को णिवटेइ // ' इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वैस्तुसंभवहेतुर्मदो विज्ञानेन निवर्त्यते तद्धेतुकः पुनः केनेत्यलंकारभाष्यकारोक्तस्तन्निवृत्तिहेतुप्ररोहात्मकत्वाद्वितर्कालंकारो न व्याघातः / विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात् / 'गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः / ओष्ठविद्रुमदलान्यमोचयन्निदशन्युधि रुषा निजाधरम् // ' इत्यत्र चाधरव्यथानिर्मोचनात्मकविपरीतफलनिप्पत्त्यर्थं तन्निर्दशनात्मा प्रयत्न उपनिबद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः / तेनैवेति / दृष्टिलक्षणेनैव न पुनरन्येनेत्यर्थः / तेनेति निष्पन्नस्य वस्तुनस्तेनैवोपायेन व्याहतत्वात् / तदेव विभजति–विरूपाक्षस्येत्यादिना / अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम् / तथा हि येनकेनचिद्यत्किंचित्साधितं तैदप्यन्येनान्यथाक्रियते तदा तस्य ततोऽन्यथाकरणानुपपत्या 1. 'प्रतिविरूपपक्षभूतम्' क. 2. 'वस्तुसंभवविन्यन्यहेतुर्मदो' ख. 3. 'तद्वदन्येनान्यधी' ख.