________________ अलंकारसर्वस्वम् / अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात् / एकस्या एव योषितः प्रासादादौ युगपदवस्थानम् , तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण ज्ञेयम् / यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः।। यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं वस्तु तत्ततोऽन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादितवस्तुव्याहतिहेतुत्वाद्वयाघातः / यथा तपं वमति बाहुरयं यशोभिः / चालुक्यगोत्रतिलक क वसल्यसौ ते दुर्वृत्तभूपपरितापगुरुः प्रतापः // ' अत्राङ्गादीनामनर्हत्वेनाधारत्वाभावेऽप्याधेयस्य प्रतापस्य स्थितिरिति विशेषालंकारत्वम् / तथा च-'चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि तुजं / वच्चंती मुहजोण्हाभरेहि तिमिरं पि ण णिहिसि // ' अत्र न केवलं प्रियं हरिष्यसि यावच्चिकीर्षाविरहेणासंभाव्यं तिमिरमपीति वस्त्वन्तरकरणात्मा विशेषः / यथा वा-'माघः शिशुपालवधं विदधत्कविमदषधं विदधे। रत्नाकरः खविजयं हरविजयं वर्णयन्व्यवृणोत् // ' अत्र न केवलं माघः शिशुपालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकरणात्मायं विशेषः / अशक्यमेव कविमदवधं कर्तुं माघस्यात्र कर्तृत्वम् / एवमुत्तरत्रापि ज्ञेयम् / अतः ‘एकस्मिन्क्रियमाणे तजातीयस्य प्रसङ्गतः सिद्धिरनुषङ्गः' इत्यनुषङ्गालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः / यथासाधितस्येत्यादि / निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम् / तद्धि द्वितीयव्याघातविषयः / तत इति निष्पादनकर्तुः / तत्प्रतिद्वन्द्विनेति / निष्पादितवस्तुव्याहतिकारित्वात् / तेनैवेत्यत्र भरः / अन्यथा हि वैचित्र्यातिशयो न स्यात् / अन्यथाक्रियत इति / तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः / अत एव नामाप्यस्य यौगिकमित्याह-निष्पादितेत्यादि / अतश्च यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिबध्यते तत्र नायमलंकारः / निष्पत्तेरेवाप्ररोहाव्याघातायोगात् / निष्पन्नवस्तुव्याहतिर्हि व्याघातः / फलं चात्र व्याहतिकारिणस्तद्वैलक्षण्यम् / अत 1. 'अनन्यभावः' ख. 2. 'तथा' ख. 3. 'यं' क-पुस्तके नास्ति.