________________ काव्यमाला। - 'यदि बाल इति सुतरामपरित्याज्योऽस्मि / रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्' इत्यादि। ___ अत्र राज्यवर्धनेन श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युता प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः / एवं विरोधमूलानलंकारान्निीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते / तत्र पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला / दुष्करत्वेन कार्यत्वमित्यर्थः / अनेनाप्यस्य प्रथमाद्वयाघाताद्भेदः सूचितः / इह हि किंचिनिष्पादयितुं संभाव्यमानः कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते / तत्र रूपाय विशेषविवक्षापरिहारेण कैतुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोपनिबन्धः / अत एवेति / द्वयोरपि कार्यत्वसंभवात् / अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः / संभावितमिति / तथा / समार्थितमिति / अनेन प्रथमव्याघातोदाहरणत्वमस्य निरस्तम् / तत्र हि द्वयोरपि कार्ययोर्निष्पत्तिविवक्षिता / बाल्यस्य तु कार्यद्वयजननेऽपि सामर्थ्य किंतु प्रेस्थापनजनने सौकर्यम्। अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम् / यथा वा-'यत्सशब्दमिति कामविमर्दै नूपुरं परिहरन्ति तरुण्यः / तदभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् // ' अत्र संभाव्यमानं कार्य परिहारः। तस्य व्याहतिधारणम् / उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम् / यथा च नायमर्थो वक्रोक्तेर्भेदस्तथा वक्रोक्तावेव वक्ष्यामः। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना / अलंकार इति न पुनः शृङ्खलैवैकोऽलंकारः / एवं हि साधर्म्यमप्येक एवालंकारः स्यात् / न ह्युपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चिद्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात् / एवं विरोधोऽप्येक एव वाच्यः। न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् / एवं सप्ताष्टानामेवालंकाराणां 1. 'व्यादिष्टोऽलंकारः' क. 2. तेनाप्यस्य' क. 3. 'कोरेव' ख. 4. 'अत्र' क. 5. 'प्रस्थान' ख. 6. 'साधम्र्येऽप्येक' ख.