________________ काव्यमाला। 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- .. टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः। . द्राक्पसकपालसंपुटमिलद्ब्रह्माण्डमाण्डोदर प्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति // पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः / उत्तरत्र तु टंकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् / परस्परं क्रियाजननेऽन्योन्यम् / इहापि विरोधप्रस्ताव एव निर्देशकारणम् / परस्परजननस्य विरुद्धत्वात् / क्रियाद्वारकं यत्र परस्परोत्पादकत्वं, न खरूपनिबन्धनं, ख तथाविधवस्तुद्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधेययोः संघटनेनैवाननुरूपत्वमवगम्यते / विषमे चानन्यापेक्षत्वेन खत एवाननुरूपयोः संघटनमित्यनयोर्महान्भेद इत्यत्र पिण्डार्थः / इत्थम्—'आधाराधेययोर्यत्र संसर्गः खादिरूपयोः / स स्फुटो विषमो वाच्यमधिकं नाधिकं ततः // ' इति न वाच्यम् / तच्चाश्रयाश्रयिणोः कविप्रतिभाकल्पितमेव ग्राह्यम् न पुनर्वास्तवम् / तेन चारुत्वाप्रतीतेः। तेन नभसो द्युप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनुदाहरणमेतत् / तदुदाहरणान्तरमन्वेष्यम् / तत्तु यथा-रणरणअगुणिअमुजतणम्मि तणुई समुद्दगहिरम्मि / मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई // अत्र हृदयस्य महत्त्वं तन्व्याश्च तनुत्वमित्याधाराधेययोरननुरूप्यम् / परस्परमित्यादि / ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याशक्याह-क्रियेत्यादि / कियाशब्देनात्र धर्मो लक्ष्यते / अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुबिम्बयोः / उदियाय तैदान्योन्यपटुत्वजननक्रमात् // ' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिः स्यात् / परस्परोत्पादकत्वमिति / परस्परनिष्पादकत्वमित्यर्थः / एवं चानेन जननस्य क्रियासामा 1. 'विरुद्धश्रद्धत्वात्' क. '2. 'परस्परोपपादकत्वं' ख. 3. यदा' क.