________________ अलंकारसर्वस्वम् / 'उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति . खद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया / प्राणान्प्राणितुमेव मुञ्चति रणे क्लिभाति भोगेच्छया सर्व तद्विपरीतमेव कुरुते तृष्णान्धक्सेवकः / / ' अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः / आश्रयायिणोरानुरूप्यमधिकम् / / विरोधप्रस्तावादिह निर्देशः / अनानुरूप्यस्य विरोधोत्थापकत्वात् / सच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् / क्रमेण यथा 'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र कचि-.. स्क्वाप्यत्रै धराधराधरजलाधारावधिर्वर्तते / स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै... / दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् // ' निषेधबलाद्वैपरीत्यप्रयत्न इति / यद्यपि विषमे विरूपस्य कार्यस्य खयमेवोत्पत्तिरह च तन्निष्पत्तये प्रयत्न इति स्थितोऽप्यनयोः स्फुटो मेदस्तथापि ग्रन्थकृता विशेषपरिपोषायैव सूक्ष्मेक्षिकाग़म्यो भेदोऽयमुक्तः / मोचनस्याग्रहणं खं फलम् / अहणं पुनः कथं भवतीत्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः / अनन्तरं च तन्निमित्ता वैपरीत्यप्रतीतिः। अत एव विषमादस्य भेदः / सुज्ञान इति / पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम् / एतद्धि ग्रन्थकृतैवाभिनवत्वेनोक्तम् / आश्रयेत्यादि / इहेति विचित्रानन्तरम् / नन्वननुरूपयोः संघटने विषममुक्तमित्याश्रयाश्रयिणोस्तत्वे कथमलंकारान्तरत्वमुच्यत इत्याशङ्कागीकारेणैतद्व्याचष्टे-तश्चेत्यादिना / आश्रयस्येत्याधारस्य / आश्रितस्येत्याधेयस्य / अनेनैव चांस्य भेदद्वयमप्युक्तम्। एवं च परिमितत्वापरिमितत्वयोः सापेक्षवा१. 'यद्यपि-तनिष्पत्तये' इति क-पुस्तके नास्ति. 2. 'सौमनस्याग्रहणः पुनः ख.