________________ 168 काव्यमाला। . अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः / आनुरूप्यात्समत्वव्यपदेशः। विरोधमूलं विचित्रं लक्षयति खविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् / यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफलनिष्पत्त्यर्थ कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः / आश्चर्यप्रतीतिहेतुत्वात् / न चायं प्रथमो विषमालंकारप्रकारः / खनिषेधमुखेन वैपरीत्यप्रतीतेः / विपरीतप्रतीत्या तुं खनिषेधस्तस्य विषयः। यथा'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते' इत्यादि / इह वन्यथा प्रतीतिः / यथा 'घेत्तुं मुच्चइ अहरो अण्णंतो वलइ पेक्खिउं दिट्ठी। घडिदं विहडंति भुआ रआअ सुरअम्भि वीसामो / ' अत्र मोचनवलनविघटनविश्रमाणां यथाक्रम ग्रहणप्रेक्षणघटनरमणानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि / यथा वा चित्यलक्षणात् / खविपरीतेत्यादि / एतदेव व्याचष्टे-यस्येत्यादिना / यदिति प्रसिद्धम् / फलमिति कार्यम् / तस्येति हेतोः। तदिति कार्यम् / प्रयनस्य कार्यादिभेदेऽपि न वैचित्र्यमिति तदिह नोक्तम् / एवं यस्य यत्कार्यं तस्य तावत्तद्विपरीतं न भवति / यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थं च यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम् / ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशझ्याहन चायमित्यादि / तस्येति विषमस्य / नीलयापि पाण्डु यशःप्रसूतमिति विपरीतप्रतीतिबलादेतन्नोपपद्यत इति ह्यत्र प्रतीतिः। अन्यथेति 1. 'अनुरूपत्वात्' क-ख. 2. 'तस्य' क पुस्तके नास्ति. 3. 'तदा विचित्रालं. कारः' क. 4. 'ग्रहीतुं मुच्यतेऽधरोऽन्यतो वलति प्रेक्षितुं दृष्टिः / घटितुं विघटेते भुजौ रताय सुरतेषु विश्रमः // ' इति च्छाया. 5. 'मरणानि' खं. 6. 'यस्येति' क. 7. 'विपरीतप्रतीतेः / यद्यपि विषमे विरूपस्य ख.