________________ अलंकारसर्वस्वम् / अत्र शोभाकिया नाबभूव साधाकलापस्य च रूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः। यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य / 'अन्योन्यशोभाजननाबभूव साधारणो भूषणभूण्यभावः // अत्र शोभाक्रियामुखकं परस्परजननम् / अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं वि. शेषः। इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः / यच्चैकं वस्तु परिमितं युगपदनेकधावर्तमानं क्रियते स द्वितीयो विशेषः / यच्च किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः। आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः / क्रमेण यथा- . न्यात्मककारणार्थत्वं दर्शितम् / तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रसरापसारणाय / अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवेशयन्तम् // ' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्परस्परजननस्याव्यापकत्वं न वाच्यम् / 'विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशरश्वकार / पपात यन्नष्टधृतिर्वराहस्तं विह्वलाङ्गं वसुधा बभार // ' इत्यत्र पुनरादिवराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात् / एवमन्यत्रापि ज्ञेयम् / तथात्वोक्तिविरोधादिति / इतरेतराश्रयदोषलक्षणात् / यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः / यथा-'धनेन जायते प्रज्ञा प्रज्ञया जायते धनम् / प्रज्ञार्थों जीवलोकेऽस्मिन्परस्परनिबन्धनम् // ' अत्र प्रज्ञाधनयोः खरूपस्य परस्परं जननम् / देशकालमेदाद्विरोधसमाधिः / शोभाक्रियेति / सैव ह्यत्र परस्परनिमितम् / अनाधारमित्यादि / एतदेव व्याचष्टे-इहेत्यादिना / तत्परिहारेणेति / आधारव्यतिरेकेणेत्यर्थः / परिमितमित्यव्यापकम् / व्यापकस्य हि युगपदनेकन स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् / किंचिदिति यत्र याद्दग्विव 1. 'जननस्य व्यापकत्वं' ख. 2. 'प्रवृत्तिनिमित्तम्' ख.