________________ काव्यमाला। 'तीर्थान्तरेषु मलपङ्कवतीविहाय ..दिव्यास्तनूस्तनुभृतः सहसा लभन्ते / वाराणसि त्वयि तु मुक्तकलेवराणां . लाभोऽस्तु मूलमपि यात्यपुनर्भवाय.' 'अरण्यानी केयं घृतकनकसूत्रः क स मृगः ___क मुक्ताहारोऽयं क च स पतगः केयमबला / क तत्कन्यारत्नं ललितमहिमतुः क च वयं खमाकूतं धाता निभृतनिभृतं केन्दलयति // ' अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यान्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम् / केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमप्यूह्यम् / यथा.. 'परहिअ मग्गंती इआरिअं अत्तणोतए हिअअं। ... अव्योल्लाहस्स कए मूलाओं विछेइआ जाआ // ' इति तत्रोंदाहार्यम् / हास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्याननिर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदेव सिद्धान्तीकार्यम् / तस्य पृथडिरसिष्यमाणत्वात् / इह हि यथाशक्त्य आकमाग्रहप्रवृत्तपरकीयदूषणोद्धारमात्रमेव विवक्षितम् / यथोपयोगं पुनस्तन्निराकरणमपि कृतं करिष्यते च। अत्र शुक्लकृष्णवर्णत्वं कार्यकारणात्मकविषयद्वयगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेयः / एवमन्यप्रापि ज्ञेयम् / अरण्यान्यादीनामननुरूपमन्योन्यर्घटनं वास्तवमित्युदाहरणान्तरेणोदाहियते / यथा-'शिरीषादपि मृदङ्गी क्वेयमायतलोचना / अयं क्व च कुकूलाग्निकर्कशो मदनानलः // ' अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम् / अत्रेति तीर्थान्तरेष्वित्यादौ / शुद्धति / यत्र विषममेव न स्यात् / तत्तु यथा 1. 'पल्लवयति' ख. 2. 'घट्टनं' क. 3. 'अभ्यूह्यम्' क. 4. 'घटेना' ख.