________________ अलंकारसर्वखम् / विरूपकार्याऽनर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् / - विरोधप्रस्तावेनेह लक्षणम् / तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् / तथा कंचिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा. प्तिरपीति द्वितीयं विषमम् / अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघटनं तृतीयं विषमम् / अननुरूपसंसर्गो हि विषमम् / क्रमेण यथा'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा / तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते // '. . कटाक्षिता / अन्यथा हि विरोधो दुष्परिहरः स्यात् / एवं पथ्यज्वरशब्दयोरतिशयोक्तिबलात्प्रजापालनयुक्तिसंतापवाचकत्वं द्रष्टव्यम् / अन्यत्रेति कातरत्वादौ / विरूपेत्यादि / इहेति / अस्या अप्यननुरूपसंसर्गेण विरोधगर्भत्वात् / विरूपमिति / कारणापेक्षया विजातीयत्वेनातद्गुणत्वात् / यद्यपि 'गोमयादृश्चिकोत्पत्तिः' इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति, तथापीह कविप्रतिभानिर्वर्तितमेव तद्बाह्यम् / तेन 'द्राक्षाफलानि शिखरेषु शिलोच्चयानां पीयूषसाररसनिर्भरगर्भवन्ति / विष्वग्दृषत्कठिनकायनिगूढ झाटकानि पुनरम्भसि संभवन्ति // ' इत्यादौ विषमं न वाच्यम् / ईदृश एव कार्यकारणभावस्य वस्तुतः संभवात् / तस्येति साधयितुमिष्टस्य / अप्रतिलम्भ इति / असिद्धिरिति यावत् / अत्यन्तेति / न केवलं तयोः खयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूंपत्वमित्यत्र तात्पर्यम् / एकमित्याद्यभिदधता ग्रन्थकृता विर्षमाणां भिन्नत्वमुक्तम्, न प्रकारप्रकारित्वम् / सामान्यलक्षणस्यासंभवात् / एवमेव पुनरेषां कस्मादभिधानमित्या. शङ्कयाह-अननुरूपेत्यादि / यत्किंचित्पुनरस्मद्दर्शनविरुद्धमन्यैरधिकमुक्तं तदि _____1. 'अत्यर्थ' क. 2. 'संघटनात्' ख. 3. 'अननुरूपेत्यादि' ख-पुस्तके नास्ति. 4. 'विरूपतागर्भत्वात्' क. 5. 'शङ्ग' क-ख. 6. 'अप्रसिद्धि' क. 7. 'रूपत्वात' ख. 8. 'विषयानां ख.