________________ 164 . काव्यमाला। . तयोरिति कार्यकारणयोः / यद्देशमेव कारणं तद्देशमेव कार्य दृष्टम् / नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति / यदा वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते, तदोचितसंगतिनिवृत्तेरसंगत्याख्योऽलंकारः। स च विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते / यथा 'प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः / वन्द्याः श्लाघ्यगुणास्त एवं विपिने संतोषभाजः परं बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्त्रिणः // ' अत्र पथ्यपराङ्मुखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशहेतुरित्यसंगतिः। एवम्'सा बाला वयमप्रगल्भवचसः सा स्त्री बयं कातराः सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम् / सा क्लान्ता जघनस्थलेन गुरुणां गन्तुं न शक्ता वयं ___ दोषैरन्यसैमाश्रितैरपटवो जाताः स इत्यद्भुतम् // इत्यत्र ज्ञेयम् / अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च सरनिमित्तकमित्यनयोरभेदाध्यवसायः / एवमन्यत्र ज्ञेयम् / रित्यादि / एतदेव व्यतिरेकमुखेनापि दर्शयति-नहीत्यादिना / उचितसंगतिनिवृत्तेरिति / एकदेशयोरपि कार्यकारणयोर्भिन्नदेशत्वेनोपनिबन्धनात् / अत एव च तयोभिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोधादस्य भेदः / इह लक्ष्यत इति / अस्या अपि कारणयोभिन्नदेशत्वेन विरोधगर्भत्वात् / अमेदाध्यवसाय इति / अनेनातिशयोक्तिरस्या ‘अप्यनुप्राणकत्वेन - 1. 'एवं च' ख. 2. 'समाश्रयैः' क. 3. 'अत्र-ज्ञेयम्' ख-पुस्तके नास्ति. -