________________ अलंकारसर्वस्वम् / 11 / कार्यकारणयो समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। . इह नियतपूर्वकालमावि कारणं नियतपश्चात्कालभावि च कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् / यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः / एतद्रूपापगमश्च काल साम्यनिबन्धनः कालविपर्यासनिबन्धनश्चेति द्विधाभवन्नतिशयोक्तिमपि द्वैधे स्थापयति / क्रमेण यथा. 'पश्यत्सूगतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि / कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् // ' 'पथि पृथि शुकचञ्चूचारुरामाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च / / नरि नरि किरति द्राक्सायकान्पुष्पधन्वा ____ पुरि पुरि च निवृत्ता मानिनीमानचर्चा // ' पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् / उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तैयोस्तुल्यत्वेनोपपन्नं पौर्वापर्य व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः / कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते। तयोस्तु भिन्नदेशत्वेऽसंगतिः। निर्णीयते / पूर्वत्रैवास्य निर्णीतत्वात् तासेवाह-कार्यकारणयोरित्यादि। उभयत्रापि नियतशब्द एतदव्यभिचारदर्शनात् / एतद्रूपापगम इति / कार्यकारगयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात् / प्रौढोक्तिनिर्मित इति / कीर्तिश्रियोर्वस्तुतो निर्गमनप्रवेशासंभवात् / प्रतिपाद्यत इति प्रयोजनत्वात् / तयो 1. स्त्रिया' ख. 2. तयोरुपपन्नं पौर्वापर्येण निर्दिष्टम्' क. 3. 'भावित्वाख्यो' क.