________________ 162 काव्यमाला। सा चैवामि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते / / / इत्यत्र विभावनाविशेषोत्त्योः संदेहसंकरः। तथा युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना / तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः / विरुद्धमुखेनोपनिबन्धात्केवलमस्पष्टत्वम् / साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः / या तु 'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' इति विशेषोक्तिर्लक्षिता सास्सिन्दर्शने रूपकभेद एवेति पृथङ् न वाच्या / ___ अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्तावेनेहोच्यते मुखेन कार्यकारणभावोपनिबन्धे सतीत्यर्थः / उत्कण्ठायाः कारणं कौमारहरवराद्यसंनिधानम् / तस्य विरुद्धं तत्संनिधानम् / तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना / तथा कौमारहरवरादिसंनिधानरूपस्य कारणस्य कार्यमनुत्कण्ठा, तस्याश्च विरुद्धोत्कण्ठा / तेन सत्यपि कौमारहरवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठारूपस्याभाव इति विशेषोक्तिः / अस्पष्टत्वमिति / कार्यकारणयोः साक्षान्निषेध्यत्वेनाप्रतीतेः / ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशझ्याह-साधकेत्यादि / ननु 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा कि नोच्यत इत्याशङ्कयाह-या त्वित्यादि / एवमनयैव दृशा एकगुणहान्युपचयादिकल्पनायां साम्यदाय विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्दर्शने रूपकमेद एवेति न पृथग्वाच्यः / प्रस्तावेनानुगुण्येन / अत एवेयन्तः कार्यकारणभावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपञ्चमानं दर्शयितुं पुनरिहास्या वचनम् / एतच्च ग्रन्थकृतैवोक्तम् / प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकारप्रस्तावे प्रपञ्चाथ लक्षयिष्यत इत्युच्यत इति न पुन 1. 'यस्तु' ख. 2. 'पुनरिहास्य' ख.