________________ अलंकारसर्वस्वम् / प्रयुज्यमाना विशेषोक्तिः। सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च / अचिन्त्यनिमित्ता त्वनुक्तनिमित्वैव / अनुक्तस्य च चिन्त्याचिन्त्यत्वेन द्वैविध्यात् / क्रमेण यथा- . 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने / नमोऽस्त्ववारवीर्याय तस्मै कुसुमधन्वने // .. . 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि / गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति // ' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः / हरतापि तनुं यस्य शंभुना न हृतं बलम् // ' अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः शक्तिखरूपेणाविरुद्धेन धर्मेणोपनिबद्धा / अवार्यवीर्यत्वं चात्रोक्तनिमित्तम् / तथाहानादयः संकोचशिथिलीकारहेतव इति तेषु सत्खपि तस्यानुत्पत्तौ प्रियतमाखानसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम् / तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुतमप्यचिन्त्यमेव, प्रतीत्यगोचरत्वात् / कार्यानुत्पत्तिश्चात्र कचित्कार्यविरोधोत्पत्त्या निबध्यते / एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन कचित्प्रतिपाद्यते / तथा च सति, _ 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- ....... स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः / माह-सा चेत्यादि / अचिन्त्येत्युत्तानाशयैः / वस्तुतस्तु संभवत्येव / अन्यथा वस्या विरोधो दुष्परिहार्यः स्यात् / अविकल इति / समग्रे विरुद्धधर्मत्वं शक्त्यशक्त्योर्विरोधात् / अस्याश्च कार्यानुत्पत्तेर्विच्छित्त्यन्तरेण बन्धं दर्शयितुमाह-कार्येत्यादि / यथा कर्पूर इवेत्यादौ / एवमिति / यथैवात्र कार्यानुत्पत्तिविरुद्धमुखेनोपनिबध्यत इत्यर्थः / तथा च सतीति / द्वयोरप्यनयोर्विरुद्ध 11 अ० स०