________________ काव्यमाला। मेतत् / एकगुणहानौ विशेषोक्तिरित्यन्ये / रूपकमेवाधिरोपितवैशिष्ट्यमिति त्वपरे / आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः। विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयतिकारणसामग्र्ये कार्यानुत्पत्तिविशेषोक्तिः। इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् / अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् / यत्तु सत्यपि सामग्र्ये न जनयति कार्य सा कंचिद्विशेषमभिव्यक्त दिह मण्डनादेः खरूपम् / यद्येवं तमुत्रान्यः कोऽलंकार इत्याशङ्कयाह-एकेत्यादि / अन्य इति वामनीयाः / अपर इत्यौद्भटाः / तृतीयस्तु पक्षो न ग्राह्यः / लेखकपरिकल्पितत्वात् / तथाह्यारोप्यमाणस्य प्रकृते ,संभव इति न परिणामलक्षणम् / आरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षितत्वात् / संभवोपयोगयोश्च नैकत्वम् / भिन्नत्वात् / ग्रन्थकृतापि साहित्यमीमांसायामेतच्छोकविवृतौ पक्षद्वयमेवोक्तम् / लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः। तथा चात्रैवासंभृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः / एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः। तद्विपर्ययेति / कारणसामग्र्ये कार्यानुत्पादात् / तामेवाह-कारणेत्यादि / समग्राणीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः। अत एवाव्यभिचारायाह-नियमेनेति / अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति / एवं नैकं किंचन जनकं सामग्री वै जनिकेति नीत्या समग्राणां कारणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः / यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषोक्तिर्भवतीत्याह-यत्त्वित्यादि / अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः / तद्धेतुकमेवास्या भेदनिर्देश 1. 'नारोप्यमाणस्य' ख.