________________ अलंकारसर्वस्वम् / 159 यौवनहेतुकत्वेनोपनिबन्धः कृतः। मदस्य च द्वैविध्येऽप्यभेदाध्यवसायादेकत्वमतिशयोक्त्या / सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम् , अपि तु तदनुप्राणितत्वेन / इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाविधैव / तत्रोक्तनिमित्तोदाहृता / अनुक्तनिमित्ता यथा 'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् / अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् // अत्र सहजत्वं निमित्तं गम्यमानम् / असंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमिति च / अत्र विवदन्ते-इयमेव विभावनेति केचित् / संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वाङ्मात्र अन्यपादयोर्न विभावनेत्यर्थः / यौवनहेतुकत्वेनेति / समाधानायाप्रसिद्धं कारणमाश्रित्येत्यर्थः / अन्यथा हि विरोधपरिहारो न स्यात् / ननु चासवजनितोऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं कारणाभावे कार्यस्योत्पत्तिरित्याशझ्याह-मदस्येत्यादि / द्वैविध्य इति क्षैब्य. दर्परूपे / सेत्यतिशयोक्तिः / अव्यभिचारिणीति / अतिशयोक्तिं विनास्या अनुत्थानात् / अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् / तदेवाहतदनुप्राणितत्वेनेति / यदुक्तमन्यत्रापि-'आश्लिष्टातिशयोक्तिश्च सर्वत्रैव विभावना' इति / 'निरुपादानसंभारमभित्तावेव तन्वते / जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने // ' इत्यत्र तु जगत उपादानादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात् / एवम्-'ण अरूवं ण अ ऋद्धी गावि कुलं ण अ गुणाण विण्णाणं / एमे अ तह वि कस्स वि को वि अणो वल्लहो होइ // ' इत्यादावपि ज्ञेयम् / अतश्च क्वचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् / विशेषोक्तिवदिति / विशेषोक्तौ प्राच्यैर्यथोक्तमित्यर्थः / अत्र चाद्य उदाहरणे द्वितीयपाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमि. त्यादि / केचिदिति विवदन्त इति संबन्धः / अकारणत्वादिति / संभरणा- 1. 'उत्थापनं' क. 2. 'इति भावः' ख. 3. 'ण अ' क. 4. 'संबन्धादिमण्डनादेः' ख.