________________ Panाभाव इत्यन्योन्य 158 - काव्यमाला। कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकाराद्भेदः / एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम् / येन सापि विरोधाद्भिन्ना स्यात् / इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम् / नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते / वैयाकरणैरेव तथाभ्युपगमात् / अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् / यथा 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य / कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे / ' अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि प्याह-एवमित्यादि / लेखककल्पितश्चायमपपाठः / तथा हि-'हरतापि तनुं यस्य' इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामग्र्ये कथं न बलं हृतमिति कार्याभावस्यैव वाध्यत्वेन प्रतीतिः / तस्मात् ‘एवं विशेषोक्तौ कारणसत्तया कार्याभावस्यैव बाध्यमानत्वमुन्नेयम्' इति पाठो ग्राह्यः। एतदेव राजानकतिलकेनाप्युक्तम्-'कारणसामग्र्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन' इति / ग्रन्थकृच्च प्रायस्तन्मतानुवर्येव / तदुक्तसमानन्यायोऽस्माभिः पाठो लक्षितः / येनेति / एकस्यैव बाध्यत्वेन प्रतीतेः / ननु च 'क्रियायाः प्रतिषेधेऽपि यत्फलस्य विभावनम् / ज्ञेया विभावना-' इत्यादिनोद्भटादिभिरेतल्लक्षणे क्रियाग्रहणं कृतमिति कथमिह तदुल्लङ्घनेन कारणग्रहणं कृतमित्याशयाह-इहेत्यादि / सर्वैरिति बौद्धादिभिः / अत इति / वैयाकरणैरेव क्रियाफलस्य कार्यस्याभ्युपगमात् / सामान्येनेति / सर्ववादिसाधारणतयेत्यर्थः / सर्ववादिसाधारणोऽयं ग्रन्थः / द्वितीय इति / . 1. तदोदाहरणम्' ख. 2. 'सत्तायाः' ख. 3. 'एतच्च' क. 4. 'विभा"चना' क.