SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / 157 एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते / तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह कारणाभावे कार्ययोत्पत्तिविभावनः / इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः / अन्यथा विरोधो दुष्परिहरः स्यात् / यदि तु कयाचिद्भङ्गया तथाभाव उपनिबध्यते तदा विभावनाख्योऽलंकारः। विशिष्टतया कार्यस्य भावनात् / सा च भङ्गिविशिष्ट कारणाभावोपनिबद्धा / अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः / कारणाभावेन चोक्रान्तत्वाबलवता मेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात् / तावदिति प्रथमम्। कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् / आहेति / कारणाभाव इत्यादिना। तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति-इहेत्यादिना। यदुक्तम्-'यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया / तदेव कारणं तस्य नान्यत्कारण. मुच्यते // ' इति / अन्यथेति / यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः / ननु यद्येवं तत्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवतीत्याशङ्कयाह-यदि त्वित्यादि। तथाभाव इति कारणाभावे कार्योत्पत्तिः। अत एव कार्यस्य विशिष्टत्वम् / सेति / यया भझ्या कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः / विशिष्टेति प्रसिद्धम् / विरोधपरिहार इति / अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् / ननु यद्येवं तत्कथमयं विरोध एव न भवतीत्याशङ्याह-कारणेत्यादि / तेनेति कार्येण / यदुक्तम्-'कारणस्य निषेधेन वाध्यमानः फलोदयः / विभावनायामाभाति विरोधोऽन्योन्यबाधनम् // अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः।' इति / एतदेव प्रसङ्गाद्विशेषोक्तर 1. 'यदा' क. 2. 'भावात्' ख. 3. 'कारणाभावो भावकार्योपनिबन्धः' क. 4. 'चेह' ख. 5. 'विद्यते क्रिया' ख. 6. 'संबन्धः' क. 7. 'अत्र दूरे विरोधः स्याद्विभेदेन' क.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy