________________ 156 काव्यमाला। विविक्तविषयत्वेन चास्य दृष्टेः श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् / दर्शनान्तरे तु संकरालंकारः / यथा-'संनिहि- . तवालान्धकारा भाखन्मूर्तिश्च' इत्यादौ विरोधिनोयोरपि श्लिष्टत्वे / एकस्य तु श्लिष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ / एकविषयत्वे चायमिष्यते। विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते / अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसतव्या इत्यपि सूचितम् / तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्वोपनिबन्धे विरोधो ज्ञेय इति / तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् / अभावयोस्तु यथा-'तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेप एव पदमुद्धृतमुद्वहन्ती / मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ / अत्राभावरूपयोः क्रिययोर्विरोधः / भावाभावयोस्तु यथानङ्गलेखायां राजवर्णने 'विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत् , पश्चतां जनयन्नपि पञ्चालस्य वैमुख्यमपुष्णात् , पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्यधात्, चोलकान्ता अप्यचोलकान्ताः समपादयत् , कुन्तलालसानप्यकुन्तलालसांश्च निर्ममे शूरसेनानप्यशूरसेनानदर्शयत् / ' इत्यादि। अस्यापि मतभेदेन श्लेषेण सह व्यवस्थिति दर्शयितुमाह-विविक्तेत्यादि / 'जडयति च तापं च कुरुते' इत्यत्रास्य विविक्तविषयत्वम् / दर्शनान्तर इति ग्रन्थकृदभिमते / शब्दश्चात्र संकीर्णमात्रे वर्तते / तेनात्र संकरेण संकीर्णत्वेन च श्लेषमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम् / अलंकारशब्देन चात्र विरोधाभास एवाभिधीयते / तस्यैवेह प्रस्तुतत्वात् / अत्र हि श्लेषो विरोधोत्पत्ती हेतुत्वं भजते / तेन विना तस्यानुत्थानात् / संकरश्च खहेतुबलाल्लब्धसत्ताकयोरलंकारयोर्भवति / तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः / यद्वक्ष्यति-'न च विरोधोत्पत्तिहेती श्लेषस्य विरोधेन सहाङ्गाङ्गिसंकरः' इति / द्वयोरेकस्येत्यनेन श्लेषमिश्रत्वस्यापि वैचित्र्यं दर्शितम् / अस्य च वक्ष्यमाणाद्विरोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति–एकेत्यादिना / जडीकरणतापकरणयोविकारयोर्विकारिगतत्वेनास्यैकविषयत्वम् / विषयभेद इति / कार्यकारणादीना 1. 'अनुमन्तव्याः ' ख. 2. 'श्लिष्ट' क.